________________
पिण्डनियु
तेर्मलयगिरीयावृत्तिः ॥८ ॥
___ व्याख्या-साधुनिमित्तं कुतोऽपि स्थानाद् भिक्षामाददती कयाचिनिषिध्यते-मैतदेहि, किन्त्विदं विवक्षितभाजनस्थं देहि, तत | औदेशिएवं कृते निषेधिते साधुः पृच्छति-किमेतन्निषिध्यते ?, किंवा इदं दाप्यते? इति, ततः सा पाह-इदमेव दानाय कल्पितं, नेदमिति ।।
के दोष तत एवं 'शिष्टे' कथिते साधवस्तत्परिहरन्ति, यदि पुनर्यदत्तं तदत्तं मा शेषं सम्पति दद्यादिति निषिध्यात्मार्थीकृतमौदेशिकं भवति
| ज्ञानहेतुः तदा तत्कल्पते इतिकृत्वा गृह्णन्ति, तदेवमुक्तमुद्दिष्टौदेशिकं । सम्पति कृतौदेशिकस्य सम्भवहेतून स्वरूपं च प्रतिपादयति
रसभायणहेउं वा मा कुच्छिहिई सुहं व दाहामि । दहिमाई आयत्तं करेइ कूरं कडं एयं ॥ २३८ ॥
मा काहति अवण्णं परिकट्टलियं व दिज्जइ सुहं तु । वियडेण फाणिएण व निद्रेण समं तु वटुंति ॥२३९॥
व्याख्या-रसेन' दध्यादिना रुद्धमिदं भाजनं तस्मादेतेन दध्यादिना यदुद्धरितं शाल्योदनादि तत् करम्बीकृत्य रिक्तमिदं भाजनं करोमि येनान्यत्प्रयोजनमनेन क्रियते इति रसभाजनहेतोः, यद्वा-इदं दध्यादिनामिश्रितं कोथिष्यति, न च कुथितं पाखण्डयादिभ्यो दातुं शक्यते, यद्वा-दध्यादिसम्मिश्रमेकेनैव प्रयासेन सुखं दीयते, इत्यादिना कारणजातेन 'दध्याद्यायत्तं' दध्यादिसम्मिश्र करोति 'कूरम् ' ओदनम् , एतत् कृतं ज्ञातव्यं, तथा यदि भिन्न भिन्नमोदकाशोकवादिचूर्णीर्दास्यामि ततो मे पाखण्डयादयः 'अवर्णम् । अश्लाघां करिष्यन्ति, यद्वा—'परिकलितम् ' एकत्र पिण्डीकृतं सुखेन दीयते, अन्यथा क्रमेण मोदकाशोकवादिचूर्गी: स्वस्वस्थानादानीयानीय दाने भूयान् गमनागमनप्रयासो भवति, अपान्तराले वा सा चूर्णिहस्तात् क्षरित्वा पति, ततो 'विकटेन' मद्येन देशविशेषापेक्षमेतत् , यद्वा-'फाणितेन' कक्कवादिना यद्वा स्निग्धेन' घृतादिना मोदकवूयर्यादि सा 'वर्तयन्ति' पिण्डतया बनन्ति । अत्र द्वयोरपि गाथयोः पूर्वार्द्धाभ्यां सम्भवहेतब उक्ताः, उत्तरार्द्धाभ्यां तु स्वरूपम् । सम्पति कौदेशिकस्य सम्भवहेतून् स्वरूपं चातिदेशेनाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org