________________
तत्र यदा कल्पते यदा च न तदाह-'जत्थेत्यादि, यत्र देये वस्तुनि यतीनामप्यविशेषेण निर्देशो भवति, यथा ये केचन गृहस्था अगृहस्था वा भिक्षाचरा यदिवा ये केचित्पाखण्डिनो यद्वा ये केचन श्रमणास्तेभ्यो दातव्यमिति तत्परिहरन्ति, यत्र तु यतीनामेव विशेषेण निर्देशो यथा यतिभ्यो दातव्यमिति तत्परिहरन्त्येव नात्र कश्चित्सन्देह इति तत्पृथग्विशेषेण नोक्तं, यदि पुन,हस्थेभ्य एव दीयतां, यदिवा चरकादिभ्य एव पाखण्डिभ्यो न शेषेभ्यस्तदा कल्पते, अपि च
संदिस्संतं जो सुणइ कप्पए तस्स सेसए ठवणा । संकलिय साहणं वा करेंति असुए इमा मेरा॥ २३६ ॥
व्याख्या-यन्नाद्याप्यौदेशिकं जातं वर्तते केवलं तदानीमेवोद्दिश्यमानं वर्तते, यथा इदं देहि मा शेषमित्यादि, तत्सन्दिश्यमानम्अर्थिभ्यो दानाय वचनेन सङ्कल्प्यमानं यः साधुः शृणोति तस्य तत्कल्पते तदैव, दोषाभावात, तदपि च उदिष्टौदेशिकादि द्रष्टव्यं, न कृतं कर्म च, यत उक्तं मूलटीकायाम्-"अत्र चायं विधिः-संदिस्संतं जो सुणइ साहू उद्देसुद्देसयं पडुच्च, न य कडकम्माई, तं कप्पए । तदैव दोषाभावा"दिति । यस्तु सन्दिश्यमानं न शृणोति तस्य न कल्पते, कुतः? इत्याह-'ठवग'त्ति स्थापनादोषात्, सच निर्गतः सन्नन्येभ्यः साधुभ्यो निवेदयति, तथा चाह-'सङ्कलिए'त्यादि 'अश्रुतेः शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाची मर्यादा, यदुत सलिकया एकः सङ्काटकोन्यस्मै कथयति सोऽप्यन्यस्मायित्येवंरूपया 'साहणं' कथनं करोति, वाशब्दो यदि साधवो बहुप्रमाणास्तदेकस्यावस्थानमिति सूचनार्थः, स सर्वेभ्यो निवेदयति, यथा माऽस्मिन् गृहे वाजिषुः, अनेषणा वर्त्तत इति । एवमपि यः सङ्घाटकैः । यमपि न ज्ञातं भवति तेषां परिज्ञानोपायमाह
मा एयं देहि इमं पुढे सिलुमि तं परिहरति । जं दिन्नं तं दिन्नं मा संपइ देहि गेण्हंति ॥ २३७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org