________________
पिण्डनिर्युतेर्मलयगि रीयावृत्तिः
1120 11
व्याख्या - इदं शाल्योदनादिकमुद्धरितं देहि मा ' शेषं ' कोद्रवकूरादि, अनेन द्रव्यच्छिन्नमुक्तं, तदपि च शाल्योदनादिकमन्तर्व्यवस्थितं वहिर्व्यवस्थितं वा एकतरं न शेषम्, अनेन क्षेत्रच्छिन्नमुक्तं, तथाऽमुकस्या वेळाया आरभ्य यावदमुका वेला, यथा प्रहरादारभ्य यावत्महरद्वयं तावद्देहि, अनेन कालच्छिन्नमुक्तं, भावच्छिन्नं तु स्वयमभ्यूां, तच्चैवं यावत्तव रोचते तावद्देहि मा स्वरुचिमतिक्रम्यापि । सम्प्रत्युद्दिष्टमधिकृत्य कल्पयाकल्प्यविधिमाह
दवाई छिन्नपि हु जइ भणई आरओऽवि मा देह । नो कप्पइ छिन्नंपि हु अच्छिन्नकडं परिहरति ॥ २३४ ॥
व्याख्या - इह यद् द्रव्यक्षेत्रादिभिः पृथग्निर्धारितं तदतिरिच्य शेषं समस्तमपि कल्पते, तस्य दानार्थ सङ्कल्पितत्वाभावात्, केवलं द्रव्यादिच्छिन्नमपि द्रव्यक्षेत्रादिभिः पृथग्निर्धारितमपि ' हु:' निश्चितं यदि गृहस्वामी आरत एव देयस्य वस्तुनो नियतादवधेर्वागपि भणति, यथा मा इत ऊर्ध्वं कस्मायपि देहीति, यथा प्रहरद्वयं यावत्पूर्वं किञ्चिद्दातुं निरोपितं, ततो दानपरिणामाभावादर्वागेव निषेधति' मा इत ऊर्ध्वं दद्यादिति तदा तच्छिन्नमपि कल्पते, तस्य सम्प्रत्यात्मीयसत्ता कीकृतत्वात्, यत्पुनरच्छिन्नकृतपच्छिन्नम् - अनिर्द्धारितं कृतं वर्त्तते तत्परिहरन्ति, अकल्प्यत्वात्, इत्थमेव भगवदाज्ञाविजृम्भणात्, यदा त्वच्छिन्नमपि पश्चाद्दानपरिणामाभावादवगेवात्मार्थी कृतं भवति तदा तत्कल्पते । सम्पति सम्प्रदानविभागमधिकृत्य कल्पयाकल्प्यविधिमाह -
अगाणंति व दिज्जउ अमुकाणं भित्ति एत्थ उ विभासा । जत्थ जईण विसिट्ठो निद्देसो तं परिहरति ॥ २३५ ॥ व्याख्या - अमुकेभ्यो दद्यात् माऽमुकेभ्य इत्येवं सम्प्रदानविशेषविषये सङ्कल्पे कृते विभाषा द्रष्टव्या, कदाचित्कल्पते कदाचिन्न,
Jain Education International
For Personal & Private Use Only
| २ औदेशि -
कभेदाः
ओघविभा
गाद्याः
11 20 11
www.jainelibrary.org