________________
व्याख्या-उदिष्टमद्देशादिकं प्रत्येकं द्विधा, तयथा-छिन्नमच्छिन्नं च, छिन्नं नियमितम् अच्छिन्नपनियमितं, पुनरपि छिन्नमच्छिन्नं |च चतुर्दा, तद्यथा-द्रव्ये क्षेत्रे काले भावे च, एवं यथा उद्दिष्टमौदेशिकादि प्रत्यकेमष्टधा तथा निष्पादितनिष्पन्नमिति निष्पादितेन-गृहिणा| | स्वार्थ कृतेन निष्पन्नं यत् करम्बादि मोदकादि वा तन्निष्पादितनिष्पन्नमित्युच्यते, ततो यन्निष्पादितनिष्पन्नं यत्र कृते कर्मणि वा 'क्रामति घटते, यथा यदि करम्बादि तहिं कृते अथ मोदकादि तहि कमेणि, तत्प्रत्येकादेशिकादिभेदभिन्नं छिन्नमच्छिन्नं चेत्यादिना प्रकारेणाष्टधारी ज्ञातव्यम् । सम्पत्यमुमेव गाथार्थ व्याचिख्यासुः प्रथमतो द्रव्याधच्छिन्नं व्याख्याति
भत्तुवरियं खल संखडीऍ तदिवसमन्नदिवसे वा । अंतो बहिं च सव्वं सव्वादिणं देहि अच्छिन्नं ॥ २३२॥ ___ व्याख्या-यत् सङ्खड्यां भक्तमुद्धरितं प्रायः प्राप्यते इति सङ्खडिग्रहणम् , अन्यथा वन्यदाऽपि यथासम्भवं द्रष्टव्य, तदिवसमिति ' व्यत्ययोऽप्यासा 'मिति प्राकृतलक्षणवशात् सप्तम्यर्थे प्रथमा, ततोऽयमर्थः-यस्मिन् दिवसे सङ्घडिः तस्मिन्नेव दिवसे, यता-अन्यस्मिन् दिवसे गृहनायको भार्यादिना दापयति, यथा यदन्तहस्य यच बहिः, अनेन क्षेत्राच्छिन्नमुक्तं, तत् सर्व-समस्तम् , अनेन द्रव्याच्छिन्नमुक्तं 'सर्वदिन' सकलमपि दिनं यावद् , उपलक्षणमेतत् तेन कर्मरूपं मोदकादि प्रभूतान्यपि दिनानि यावदिति द्रष्टव्यम् , अनेन कालाच्छिन्नमुक्तम्, अच्छिन्नम्-अनवरतं देहि, भावाच्छिन्नं तु स्वयमभ्यूां, तच्चैव-यदि तव रोचते यदिवा न रोचते तथाप्यवश्यं दातव्यमिति । सम्पति द्रव्यादिच्छिन्नमाह
देहि इमं मा सेसं अंतो बाहिरगयं व एगयरं । जाव अमुगत्तिवेला अमुगं वेलं च आरब्भ ॥ २३३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org