________________
पिण्डनियुतेर्मलयागरीयावृत्तिः
२औदेशिकभेदाः ओघविभागाद्याः
॥७९॥
रिभ्यः। तत्र यदा यथैवास्ति तथैव ददाति तदा तदुद्दिष्ट, यदा तु तदेयं करम्बादिकं करोति तदा तत्कृतं,यदा तु मोदकादिचूर्ण भूयोऽपि गुडपाकदानादिना मोदकादि करोति तदा तत्कर्म, एवं विभागौदेशिकस्य सम्भवः । तथा चाह भाष्यकृत
तत्थ विभागुद्देसियमेवं संभवइ पुवमुद्दिढं। सीसगणहियट्ठाए तं चेव विभागओ भणइ ॥ ३२ ॥ (भा०)
. व्याख्या-तत्रोद्धरिते प्रचुरकूरादौ ' एवं ' पूर्वोक्तेन प्रकारेण विभागौदेशिकं पूर्वमुद्दिष्ट सम्भवति । सम्पति तदेव विभागौदेशिक विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो भणति
उद्देसियं समुदेसियं च आएसियं समाएसं । एवं कडे य कम्मे एकेकि चउक्कओ भेओ ॥ २२९ ॥
व्याख्या-'उद्दिष्टं' विभागौदेशिकं चतुर्दा, तद्यथा-औदेशिक समुद्देशिकमादेशं समादेशं च, एवं कृते च कर्मणि च एकैकस्मिन् 'चतुष्कः' चतुःसङ्ख्यो भेदो दृष्टः, सर्वसङ्ख्यया द्वादशधा विभागौदेशिकम् ॥ सम्पत्यौदेशिकादिकं व्याचिख्यासुराह
जावंतियमुद्देसं पासंडीणं भवे समुदेसं । समणाणं आएसं निग्गंथाणं समाएसं ॥ २३०॥ व्याख्या-इह यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखण्डिनो गृहस्था वा तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदौदेशिकमुच्यते, पाखण्डिनां देयत्वेन कल्पितं समुद्देशं, श्रमणानामादेशं, निग्रंन्यानां समादेशं सम्पत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाह
छिन्नमछिन्नं दविहं दवे खेत्ते य काल भावे य । निप्फाइयनिप्फनं नायव्वं जं जहिं कम ॥२३१॥
中心?????哈哈哈???哈哈哈哈哈
॥ ७९ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org