SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ वत्सश्च ताभिः सुरसुन्दरीभिरिव समलड्कृतमपि तादृशं गृहं नावलोकते, नापि ताः सरागदृष्टया वधूः परिभावयति, किन्त तामेव केवला चारि पानीयं वा समानीयमानं सम्यक् परिभावयति । सूत्रं सुगम, नवरं 'पञ्चविह' इत्यादि, पञ्चविधविषयसौख्यस्य खनय इव खनयो काया वध्वस्ताभिः 'समधिकम् ' अतिशयेन रमणीयतया अधिकतरं तद्नुहं 'न गणयति' न दृष्टया परिभावयति, नापि ता वधूः, एवं साधु रपि भिक्षार्थमटन्न रमणीया रमणीरवलोकयेत् , नापि गीतादिषु चित्तं निबधीयात् , किन्तु भिक्षामात्रानयनदानाद्युपयुक्तो भवेत् , तथा च सति ज्ञास्यति शुद्धमशुद्धं वा भिक्षादिकम् । तथा चाह गमणागमणक्खेवे भासिय सोयाइइंदियाउत्तो । एसणमणेसणं वा तह जाणइ तम्मणो समणो॥ २२७॥ ___ व्याख्या-'गमनं ' साधोभिक्षादानार्थ भिक्षानयनाय दाच्या ब्रजनम् 'आगमनं ' भिक्षां गृहीत्वा साधोरभिमुखं चलनम् । 'उत्क्षेपः' भाजनादीनामूर्ध्वमुत्पाटनम् , उपलक्षणमेतत् , तेन निक्षेपपरिग्रहः, ततो गमनादिपदानां समाहारो द्वन्द्वः तस्मिन् , तथा 'भाषितेषु' जल्पितेषु देहि भिक्षामस्मै साधवे इत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियैरुपयुक्तः, तथा वत्स इव 'तन्मना: ' स्वयोग्यभक्तपानीयपरिभावनमनाः सन् श्रमण एषणामनेषणां वा सम्यग् जानाति, ततो न कश्चिदोषः। उक्तमोघौदेशिकं, सम्पति विभागौदेशिकं विभणिषुः। प्रथमतस्तावत्तस्य सम्भवमाह महईए संखडीए उव्वरियं कूरवंजणाईयं । पउरं दट्टण गिही भणइ इमं देहि पुण्णहा ॥ २२८ ॥ व्याख्या-इह सङ्घडि म विवाहादिकं प्रकरणं, सङ्खड्यन्ते-व्यापाद्यन्ते प्राणिनोऽस्यामिति सङ्कडिरिति व्युत्पत्तेः तस्यां सङ्खड्या यदुद्धरितं 'कूरव्यञ्जनादिकं ' शाल्योदनदध्यादिकं प्रचुरं, तदृष्ट्वा गृही भणति स्वकुटुम्बतप्तिकारक मानुषं-यथेदं देहि पुण्यार्थ भिक्षाच Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy