SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुक्तेर्मलयगिरीयावृत्तिः औदेशिके एषणोपयोगे गोवत्सोदा. ॥७८॥ व्याख्या-इह साधुः 'गोचरगतः ' भिक्षार्थं प्रविष्टः सन् 'शब्दादिषु' शब्दरूपरसादिषु मूछ न कुर्यात्, किन्त्वेषणायुक्त उद्गमादिदोषगेवषणाभियुक्तो भवेत् , यथा गोवत्सः 'गवत्तिव्य 'त्ति गोभक्त इव ॥ गोवत्सदृष्टान्तमेव गाथाद्वयेन भावयति ऊसव मंडणवग्गा न पाणियं वच्छए न वा चारि । वणियागम अवरण्हे वच्छगरडणं खरंटणया ॥ २२५ ॥ पंचविहविसयसोक्खक्खणी वहू समहियं गिहं तं तु । न गणेइ गोणिवच्छो मुच्छिय गढिओ गवत्तंमि ॥ २२६॥ व्याख्या-गुणालयं नाम नगरं, तत्र सागरदत्तो नाम श्रेष्ठी तस्य भार्या श्रीमती नामा, श्रेष्ठिना च पूर्वतरं जीर्णमन्दिरं भक्त्वा प्रधानतरं मन्दिरं कारयामासे, तस्य च चत्वारस्तनयाः, तद्यथा-गुणचन्द्रो गुणसेनो गुणचूडो गुणशेखरश्च, एतेषां च तनयानां क्रमेण चतस्र इमा वध्वः, तद्यथा-प्रियॉलतिका प्रियङ्गुरुचिका प्रियङ्गुसुन्दरी प्रियङ्गुसारिका च, कालेन च गच्छता श्रेष्टिनो भार्या मरणमुपजगाम, ततः श्रेष्ठिना प्रियङ्गुलतिकैव सर्वगृहतप्तौ निरोपिता, गृहे च सवत्सा गौर्विद्यते, तत्र गौर्दिवसे बहिर्गत्वा चरति, वत्सस्तु गृह एव बद्धोऽवतिष्ठते, तस्मै च चारि पानीयं च चतस्रोऽपि वध्वो यथायोगं प्रयच्छन्ति । अन्यदा च गुणचन्द्रप्रियङ्गुलतिकापुत्रस्य गुणसागरस्य विवाहदिवस उपतस्थे, ततस्ताः सर्वा अपि वध्वस्तस्मिन् दिने सविशेषमाभरणविभूषिताः स्वपरमण्डनादिकरणव्यापृता अभूवन् , ततो वत्सस्तासां विस्मृतिं गतो, न कयाचिदपि तस्मै पानीयादि दौकितं, ततो मध्याह्ने श्रेष्ठी यत्र प्रदेशे वत्सो वर्तते तत्र कथमपि समा- यातः, वत्सोऽपि च श्रेष्ठिनमायान्तं पश्यन्नारटितुमारब्धवान्, ततो जज्ञे श्रेष्टिना-यथाऽद्यापि वत्सो बुभुक्षितस्तिष्ठतीति, ततः कुपितेन तेन ताः सर्वा अपि पुत्रवध्वो निर्भर्सयामासिरे, ततस्त्वरितं प्रियङ्गलतिका अन्या च यथायोग चारि पानीयं च गृहीत्वा वत्साभिमुखं चचाल, ॥७८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy