SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'छद्मस्थः , अकेवली कथमोघौदेशिकं-पूर्वोक्तस्वरूपं विजानाति ?, न ह्येवं छद्मस्थेन ज्ञातुं शक्यते, यथा नात्र स्वार्थमारभ्यमाणे पाके भिक्षादानाय कतिपयतण्डुलप्रक्षेप आसीदिति, एवं 'चोदिते' प्रेरणे कृते गुरुर्भणति-' एवं ' वक्ष्यमाणप्रकारेण गृहस्थशब्दादिचेष्टायामुपयुक्तो-दत्तावधानो जानातीति । एतदेव भावयतिदिन्नाउ ताउ पंचवि रेहाउ करेइ देइ व गणंति । देहि इओ मा य इओ अवणेह य एत्तिया भिक्खा ॥ २२३ ॥ व्याख्या-यदि नाम भिक्षादानसङ्कल्पतः प्रथपत एवाधिकतण्डुलप्रक्षेपः कृतो भवेत् तर्हि माय एवं गृहस्थानां चेष्टाविशेषा भवेयुः, यथा दत्तास्ताः पञ्चापि भिक्षाः, इयमत्र भावना-कापि गृहे भिक्षार्थ प्रविष्टाय साध तत्स्वामी निजभार्यया भिक्षां दापयति, सा च साधोः शृण्वत एवेत्थं प्रत्युत्तरं ददाति-यथा ताः प्रतिदिवसं सङ्कल्पिताः पञ्चापि भिक्षा अन्यमिक्षाचरेभ्यो दत्ता इति, यद्वा-भिक्षां ददती दत्तभिक्षापरिगणनाय भित्त्यादिषु रेखाः करोति, अथवा प्रथमेयं भिक्षा द्वितीयेयं भिक्षेत्येवं गणयन्ती ददाति, यदिवा काचित् कस्या अपि सम्मुखमेवं भणति यथाऽस्मादुद्दिष्टदत्तिसत्कपिटकादेर्मध्यादेहि, मा च इत इति, अथवा प्रथमतः साधौ विवक्षिते गृहे भिक्षार्थ प्रविष्टे का काचित्कस्याः सम्मुखमेवमाह-'अपनय' पृथकुरु विवक्षितात् स्थानादेतावतीभिक्षा भिक्षाचरेभ्यो दानायेति, तत एवमुल्लापश्रवणे रेखाकर्षणादिदर्शने च छमस्थेनाप्योघौद्देशिकं ज्ञातुं शक्यते, ज्ञात्वा च परिहियते, ततो न कश्चिद्दोषः । अत्र चायं वृद्धसम्प्रदायः-सङ्कल्पितामु दत्तिषु दत्तासु पृथगुद्धृतासु वा शेषमशनादिकं कल्प्यमवसेयमिति । इहोपयुक्तः सन् शुद्धमशुदं वाऽऽहारं ज्ञातुं शक्नोति, नानुपयुक्तः, ततो गोचरविषयां सामान्यत उपयुक्ततां प्रतिपादयति सदाइएसु साहू मुच्छं न करेज गोयरगओ य । एसणजुत्तो होज्जा गोणीवच्छो गवत्तिव्व ॥ २२४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy