________________
क्तर्मळयगिः
औदेशिके द्वादशधा विभागौ०
॥ ७७॥
पिण्डनियु- दनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावुद्धरितं . मोदकचूादि तद्भूयोऽपि भिक्षाचराणां
दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्मेत्यभिधीयते । एकैकस्मिंश्च उद्दिष्टादिके भेदे 'चतुष्कको' वक्ष्यमाणश्चतुःसङ्खयो भेदो रीयावृत्तिः
भवति, त्रयश्चतुर्भिगुणिता द्वादश, ततो विभागौदेशिकं द्वादशधा । सम्प्रत्योघौदेशिकस्य पूर्व स्थाप्यतया मुक्तस्य प्रथमतः सम्भवमाह___ जीवामु कहवि ओमे निययं भिक्खावि कइवई देमो । हंदि हु नत्थि अदिन्नं भुज्जइ अकयं न य फलेई ॥२२०॥
व्याख्या-इह दुर्भिक्षानन्तरं केचिद्गृहस्था एवं चिन्तयन्ति-'कथमपि ' महता कष्टेन जीविताः 'अवमे' दुर्भिक्षे ततः 'नियतं' प्रतिदिवसं कतिपया भिक्षा दो यतः 'हु' निश्चितं 'हन्दी 'ति स्वसम्बोधने नास्त्येतद् यदुत भवान्तरेऽदत्तमिह जन्मनि भुज्यते, नापीह भवेऽकृतं शुभं कर्म परलोके फलति, तस्मात्परलोकाय कतिपयभिक्षादानेन शुभं कर्मोपार्जयाम इत्योघौदेशिकसम्भवः । सम्पत्योघौदेशिकस्वरूपं कथयति___ सा उ अविसेसियं चिय मियंमि भत्तंमि तंडुले छुहइ । पासंडीण गिहीण व जो एहिइ तस्स भिक्खट्ठा ॥२२१॥ व व्याख्या-सा तु गृहनायिका योषित् प्रतिदिवसं यावत्पमाणं भक्तं पच्यते तावत्प्रमाण एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां
वा मध्ये यः कोऽपि समागमिष्यति तस्य 'भिक्षार्थ' भिक्षादानार्थम् 'अविशेषितमेव ' एतावत्स्वार्थमेतावञ्च भिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलान् अधिकतरान् प्रक्षिपति, एतदोघौदेशिकम् । अत्र परस्य पूर्वपक्षमाशङ्कन्योत्तरमाह
छउमत्थोघुद्देसं कहं वियाणाइ चोइए भणइ । उवउत्तो गुरु एवं गिहत्थसहाइचिहाए ॥ २२२ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥७७॥
000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org