________________
धर्माय तथा साधोरप्याधाकर्मभोजिन इत्यर्थः, तत्र सामान्यतो लुञ्चनं विच्छित्या विशवरं वा लुञ्चनं विलुञ्चनम् ॥ सम्पत्याधाकर्मद्वारमुपसञ्जिहीर्घरौदेशिकं च द्वारं व्याचिख्यासुराह
आहाकम्मदारं भणियमियाणिं पुरा समुद्दिढे । उद्देसियंति वोच्छं समासओ तं दुहा होइ ॥ २१८ ॥ ___व्याख्या-भणितमाधाकर्माद्वारम्, इदानीं 'पुरा' पूर्वम् औदेशिकमिति यद्वारं समुद्दिष्टं तद्वक्ष्ये । तच्च समासतो द्विधा भवति, द्वविध्यमाह__ ओहेण विभागेण य ओहे ठप्पं तु बारस विभागे । उद्दिट्ट कडे कम्मे एकेकि चउक्कओ भेओ ॥ २१९ ॥
व्याख्या-द्विविधमौदेशिकं, तद्यथा-ओघेन विभागेन च, तत्र 'ओघः' सामान्य 'विभागः' पृथक्करणम्, इयं चात्र भावनानादत्तमिह किमपि लभ्यते ततः कतिपया भिक्षा दद्म इति बुद्धया कतिपयाधिकतण्डुलादिप्रक्षेपेण यन्नित्तमशनादि तदोघौद्देशिकम् , 'ओपेन' सामान्येन स्वपरपृथग्विभागकरणाभावरूपेणौदेशिकमोघौदेशिकमिति व्युत्पत्तेः, तथा वीवाहप्रकरणादिषु यदुद्धरितं तत् पृथकृत्वा दानाय कल्पितं सत् विभागौद्देशिकं, विभागेन-स्वसत्ताया उत्तार्य पृथक्करणेनौदेशिकं विभागौदेशिकमिति व्युत्पत्तेः, तत्र यत् 'ओघे'
ओघविषयमौदेशिकं तत्स्थाप्यं, नात्र व्याख्येयं किन्त्वग्रे व्याख्यास्यते इति भावः, यत्तु 'विभागे' विभागविषयं तत् 'बारस 'त्ति 'सूच-1| नात्सूत्र 'मिति न्यायात् द्वादशधा-द्वादशप्रकारं । द्वादशप्रकारतामेव सामान्यतः कथयति-'उदिह' इत्यादि, प्रथमतस्त्रिधा विभागौदेशिकं, तद्यथा-उद्दिष्टं कृतं कर्म च, तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टं, यत्पुनरुद्धरितं सत् शाल्यो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org