SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु-| तमलयगिरीयावृत्तिः आंधाकर्मणि परिणामप्राधान्ये चन्द्रसूर्योद्यानोदा० सर्वोऽपि यथावस्थितो वृत्तान्तः, तत्र ये आज्ञाभङ्गकारिणस्ते विनाशिताः, इतरे मुक्ताः, सूत्र सुगम, नवरं 'तओ दंडो 'त्ति दण्डो-मारणम् , एतद्भावनार्थ रूपकत्रयं सूरोदयमित्यादि, तत्र 'पच्चुरसं' प्रत्युरसम्-उरसः सम्मुखं, 'नितस्स य'त्ति उद्यानादपराहे निर्यतः राज्ञ उभयेषां दर्शनं, ततो यथाक्रमं वधविसौं, एतेन यदुक्तम्- अब्भोजे गमणाइ य' इत्यादिगाथायां 'दिहंता तत्थिमा दोन्नि' तयाख्यातं, साम्पतं दान्तिके योजनामाह___ जह ते दंसणकंखी अपूरिइच्छा विणासिया रण्णा । दिद्वेऽवियरे मुक्का एमेव इहं समोयारो ॥ २१६ ॥ ___ व्याख्या-यथा ते दुर्वृत्ता दर्शनकाशिणः अपूरितेच्छा अपिआज्ञाभङ्गकारिण इति राज्ञा विनाशिताः, 'इतरे' च तृणकाष्ठाहारादयश्चन्द्रोदयोद्यानगता दृष्टेऽपि तैरन्तःपुरे आज्ञाकारित्वान्मुक्ताः, एवमेव इहापि आधाकर्मविषये 'समवतारो' योजना कार्या, सा चैवम्आधाकर्मभोजनपरिणामपरिणताः शुद्धमपि भुञ्जाना आज्ञाभङ्गकारित्वात्कर्मणा बध्यन्ते, साधुवेषविडम्बकसाधुवत , शुद्धं गवेषयन्त आधाकम्मोपि भुञ्जाना भगवदाज्ञाऽऽराधनात् न बध्यन्ते, प्रियङ्कराभिषक्षपकसाधुवदिति ॥ आधाकर्मभोजिनमेव भूयोऽपि निन्दतिआहाकम्मं भुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडइ बोडो लुक्कविलुक्को जह कवोडो ॥ २१७ ॥ | व्याख्या-य आधाकर्म मुझे, न च तस्मात् 'स्थानात् ' आधाकर्मपरिभोगरूपात 'प्रतिक्रामति' प्रायश्चित्तग्रहणेन निवर्तते, स 'बोडः' मुण्डो जिनाज्ञाभङ्गे निष्फलं तस्य शिरोलुश्चनादीति बोड इत्येवमधिक्षिपति, एवमेव निष्फलम् ' अटति' जगति परिभ्रमति, अधिक्षेपसूचकमेव दृष्टान्तमाह-' लुक्कविलुको जह कवोडो' लुञ्चितविलुश्चितो यथा 'कपोत: ' पक्षिविशेषः, यथा तस्य लुञ्चनमटनं च न ॥७६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy