________________
पत्तलदुमसालगया दच्छामु निवंगणत्तिदुच्चित्ता । उज्जाणपालएहिं गहिया य हया य बद्धा य ॥ २१४ ॥ सहस पइट्ठा दिट्ठा इयरेहि निवंगणत्ति तो बद्धा । नितस्स य अवरण्हे दंसणमुभओ वहविसग्गा ॥ २१५ ॥
व्याख्या-चन्द्रानना नाम पुरी,तत्र चन्द्रावतंसो राजा, तस्य त्रिलोकरेखामभृतयोऽन्तःपुरिकाः,राज्ञश्च द्वे उद्याने,तद्यथाएक पूर्वस्यां दिशि सूर्योदयाभिधानं, द्वितीयं पश्चिमायांचन्द्रोद्याभिधानं, तत्र चान्यदा प्राप्ते वसन्तमासे कस्मिंश्चिदिने राजा निजान्त:पुरक्रीडाकौतुकार्थी जनानां पटहं दापितवान्,यथा भोःशृणुत जनाः! प्रभाते राजा सूर्योदयोद्याने निजान्तःपुरिकाभिः सह स्वेच्छे विहरियति, ततो मा तत्र कोऽपि यासीत् सर्वेऽपि तृणकाष्ठाहारादयश्चन्द्रोदयं गच्छन्त्विति, एवं पटहे दापिते तस्य सूर्योदयोद्यानस्य रक्षणाय पदातीनिरूपितवान् , यथा न तत्र कस्यापि प्रवेशो दातव्य इति, राजा च निशि चिन्तयामास, सूर्योदयमुद्यानं गच्छतामपि प्रभाते सूर्यः प्रत्युरसं भवति, ततः प्रतिनिवर्तमानानामपि मध्याह्ने, प्रत्युरसं च सूर्यो दुःखावहः, तस्माचन्द्रोदयं गमिष्यामीति, एवं च चिन्तयित्वा प्रातस्तथैव कृतवान् , इतश्च पटहश्रवणानन्तरं केऽपि दुर्वृत्ताश्चिन्तयामासुर्यथा न कदाचिदपि वयं राजान्तःपुरिका दृष्टवन्तः, पातश्च राजा सूर्योदये सान्तःपुरः समागमिष्यति, अन्तःपुरिकाश्च यथेच्छ विहरिष्यन्ति, ततः पत्रबहुलतरुशाखासु लीनाः केनाप्यलक्षिता वयं ताः परिभावयामः, एवं च चिन्तयित्वा ते तथैव कृतवन्तः, तत उद्यानरक्षकैः कथमपि ते शाखास्वन्तीना दृष्टाः, ततो गृहीता लकुटादिभिश्च | हता रज्ज्वादिभिश्च बद्धाः, ये चान्ये तृणकाष्ठहारादयो जनास्ते सर्वेऽपि चन्द्रोदयं गताः, तैव सहसाप्रविष्टैरग्रे यथेच्छं राज्ञान्तःपुरिकाः क्रीडन्त्यो दृष्टाः, ततस्तेऽपि राजपुरुषैर्बद्धाः, ततो नगराभिमुखमुद्यानानिर्गच्छतो राज्ञ उद्यानपालकैः पुरुषै येऽपि बद्धा दर्शिताः, कथितश्च
jalt Education International
For Personal & Private Use Only
www.jainelibrary.org