________________
पिण्डनियु
क्तर्मळयगिरीयावृत्तिः
॥७५॥
मनसि निःशङ्को विशुद्धाध्यवसायः पायसं गृहीत्वा भोजनाय वृक्षस्य कस्यचिदधस्ताद् गतवान् , गत्वा च यथाविधिर्यापथिकादि प्रतिक्रम्य आधाकर्मस्वाध्यायं च कियन्तं कृत्वा चिन्तयामास, अहो ! लब्धमुत्कृष्टं मया पायसद्रव्यं घृतगुडादि च, ततो यदि कोऽपि साधुरागत्य संविभाग
णि परिणयति मां तर्हि भवामि संसारार्णवोत्तीर्णो, यतो निरन्तरं ये स्वाध्यायनिष्पन्नचेतसः प्रतिक्षणं परिभावयन्ति सकलमपि यथावस्थितवस्तुजा-2
| तेर्दोषादो.
षौ अशुद्धतम्, अत एव च दुःखरूपात् संसाराद्विमुखबुद्धयो मोक्षविधावेकताना यथाशक्ति गुर्वादिषु वैयाप्त्योद्यताः ये वा परोपदेशप्रवणाः स्वयं
शुद्धसाधूसम्यक् संयमानुष्ठानविधायिनश्च तेषां संविभागे कृते तद्गतं ज्ञानाद्युपष्टब्धं भवति, ज्ञानाद्युपष्टम्भे च मम महांल्लाभः, शरीरकं पुनरिदमसारं पायो निरुपयोगि च, ततो येन तेन वोपष्टब्धं सुखेन वहतीत्येवं भुञ्जानोऽपि शरीरमूर्छारहितः प्रवर्द्धमानविशुद्धाध्यवसायो भोजनानन्तरं केवलज्ञानमासादितवान् । सूत्रं सुगमं नवरं 'खल्लगमल्लगलिच्छारियाणि ति मल्लक-शरावं तदाकाराणि यानि खल्लकानिवटादिपत्रकृतानि भाजनानि दूतानीत्यर्थः, तानि लेच्छारियाणि-डिम्भकयोग्यस्तोकस्तोकपायसमक्षेपणेन खरण्टितानीव खरण्टितानि | कृतानि 'रुण्टणया । इति अवज्ञया 'हन्दी 'त्यामन्त्रणे, भोः श्रमण ! यदि रोचते तर्हि गृहाणेति शेषः, ततः शरीरयापनाय घृतगुडयुतं पायसं गृहीत्वैकान्तेऽपक्रमणं, शेषं सुगमम् , एवमन्येषामपि भावतः शुद्धं गवेषयतामाधाकर्मण्यपि गृहीते भुक्ते वा न दोषः, भगवदाज्ञाऽऽराधनात् ।। तथा च भगवदाज्ञाराधनकृतमेवादोष भगवदाज्ञाखण्डनकृतमेव च दोषं विभावयितुकामः कथानकं रूपकचतुष्केणाह
|॥७५॥ चंदोदयं च सूरोदयं च रन्नो उ दोन्नि उज्जाणा । तेसिं विवरियगमणे आणाकोवो तओ दंडो ॥ २१२ ॥ सृरोदयं गच्छमहं पभाए, चंदोदयं जंतु तणाइहारा । दुहा रखी पच्चुरसंतिकाउं, रायावि चंदोदयमेव गच्छे।।२१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org