________________
एतमवक्कमणं जइ साहू इज्ज होज्ज तिन्नोमि । तणुकोट्ठमि अमुच्छा भुतंमि य केवलं नाणं ॥ २११ ॥
व्याख्या – पोतनपुरं नाम नगरं, तत्र पञ्चभिः साधुशतैः परिवृता यथागमं विहरन्तो रत्नाकर नामानः सूरयः समाययुः, तस्याश्र साधुपञ्चशत्या मध्ये प्रियङ्करो नाम क्षपकः, स च मासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्ते मा कोऽपि मदीयं पारणकमवबुध्याधाकर्म्मादिकं कार्षीदित्यज्ञात एव प्रत्यासन्ने ग्रामे पारणार्थं व्रजामीति चेतसि विचिन्त्य प्रत्यासन्ने कचिद् ग्रामे जगाम । तत्र च यशोमतिर्नाम श्राविका, तया च तस्य क्षपकस्य मासक्षपणकं पारणकदिनं च जनपरम्परया श्रुतं, ततस्तया तस्मिन् पारणकदिने कदाचि | दद्य स क्षपकोऽत्र पारणककरणाय समागच्छेदितिबुद्धया परमभक्तिवशतो विशिष्टशालितण्डुलैः पायसमपच्यत, घृतगुडादीनि चोपबृंहकद्रव्याणि प्रत्यासन्नीकृतानि ततो मा साधुः पायसमुत्तमं द्रव्यमितिकृत्वाऽऽयाकर्म्मशङ्कां कार्षीदिति मातृस्थानतो वटादिपत्रैः कृतेषु शरावाकारेषु भाजनेषु डिम्भयोग्या स्तोका स्तोका क्षैरेयी प्रक्षिप्ता, भणिताश्च डिम्भा यथा रे बालकाः ! यदा क्षपकः साधुरीदृशस्तादृशो वा समायाति तदा यूयं भणत - हे अम्ब ! प्रभूताऽस्माकं क्षैरेयी परिवेषिता ततो न शक्नुमो भोक्तुम्, एवं चोक्तेऽहं युष्मानिर्भर्त्सयिष्यामि, ततो यूयं भणत- किं दिने दिने पायसमुपस्क्रियते ?, एवं च बालकेषु शिक्षितेषु तस्मिन्नेव प्रस्तावे स क्षपको भिक्षामटन् कथमपि तस्या एव गृहे प्रथमतो जगाम ततः सा यशोमतिरन्तः समुल्लसत्परमभक्तिर्मा साधोः काऽपि शङ्का भूदिति बहिरादरमकुर्वती यथास्वभावमवतिष्ठते, बालकाश्च यथाशिक्षितं भणितुं प्रवृत्ताः, तथैव च तया निर्भत्सिताः, ततः सरुषेवानादरपरया क्षपकोऽपि तया बभणे, यथाऽमी | मत्ता बालकाः पायसमपि नैतेभ्यो रोचते, ततो यदि युष्मभ्यमपि रोचते तर्हि गृह्णीत क्षौरेयीं नो चेत् व्रजतेति, तत एवमुक्ते स क्षपकसाधुर्निःशङ्को भूत्वा पायसं प्रतिग्रहीतुमुद्यतः, सापि परमभक्तिमुद्वहन्ती परिपूर्णभाजनभरणं पायसं घृतगुडादिकं च दत्तवती, साधुश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org