________________
कपोलोद्भेदमात्रं च हसन्ति, ततो यदा तवार्थायेदं कृतमिति जल्पति यद्वा 'सविलक्ष' सलज्जमन्योऽन्यमवेक्षन्ते चशब्दात् हसन्ति वा तदा साधवस्तद्देयमाधाकम्र्मेति परिज्ञाय वर्जयन्ति, यदा तु कस्यार्थायेदं कृतमिति पृष्टा सती गाढं सत्यवृत्त्या रुष्टा भवति, यथा काभे'भधारक ! तव तप्तिः ? इति तदा नैवाधाकर्मेति निःशङ्कं गृह्णीत ।। सम्पति 'गहियमदोसं ' चेत्यवयवं व्याचिख्यासुः परं प्रश्नयतिगढायारा न करेंति आयरं पुच्छियाविन कहति । थोवंति व नो पट्ठा तं च असद्ध कहं तत्थ ? ॥२०६॥
व्याख्या-इह ये श्रावकाः श्राविकाश्चातीव भक्तिपरवशगा गूढाचाराश्च ते नादरमतिशयेन कुर्वन्ति, मा भून्न ग्रहीष्यतीति, नापि पृष्टाः सन्तो यथावत्कथयन्ति, यथा तवार्थायेदं कृतमिति, अथवा स्तोकमितिकृत्वा ते साधुना न पृष्टाः, अथ च तद्देयं वस्तु 'अशुद्धम् । आधाकर्मदोषदुष्टम् , अतः कथं तत्र साधोः शुद्धिर्भविष्यति ? इति । एवं परेणोक्ते गुरुराह
आहाकम्मपरिणओ फासुयभोईवि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मेवि सो सुद्धो ॥ २०७॥ व्याख्या-इह प्रासुकग्रहणेन एषणीयमुच्यते सामर्थ्यात्, तथाहि-साधूनामयं कल्पः-लानादिपयोजनेऽपि प्रथमतस्तावदेषणीयमेषितव्यं, तदभावेऽनेषणीयमपि श्रावकादिना कारयित्वा, श्रावकाभावे स्वयमपि कृत्वा भोक्तव्यं, न तु कदाचनापि प्रासुकाभावेऽमासुकमिति, ततः कदाचिदप्यमासुकभोजनासम्भवे 'फासुयभोईवि' इति वाक्यमनुपपद्यमानमर्थात्मासुकशब्दमेषणीये वर्तयति, ततोऽयमर्थः'प्रासुकभोज्यपि ' एषणीयभोज्यपि यद्याधाकर्मपरिणतस्तहिं सोऽशुभकर्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तुस्थित्या बन्धकारणत्वात, 'शुद्धम् ' उद्मादिदोषरहितं पुनर्गवेषयन् आधाकर्मण्यपि गृहीते भुक्ते च शुद्धो वेदितव्यः, शुद्धपरिणामयुक्तत्वात् । एतदेव कथानकाभ्यां भावयति
0000000000०००००००००००००००००००००००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org