________________
स साधस्तं शाल्यादनमपहाय वणिजं विपणौ गत्वा पृष्टवान्, वणिजाऽप्युक्तं-मगधजनपदमत्यन्तवर्तिनो गोबरग्रामादागतः शालिरेष इति, ततः स तत्र गन्तुं प्रावर्तत, तत्रापि साधुनिमित्तं केनापि श्रावकेणायं पन्थाः कृतो भविष्यतीत्याधाकर्मशङ्कया पन्थानं विमुच्योत्पथेन व्रजति, उत्पथेन च व्रजन्नहिकण्टकश्वापदादिभिरभिद्रूयते, नापि काञ्चन दिशं जानाति, तथा आधाकम्मशडून्या वृक्षच्छायामपि परिहरन् मूर्ध्नि सूर्यकरनिकरप्रपातेन तप्यमानो मूच्र्छामगमत् , क्लेशं च महान्तं प्रापेति.।
इय अविहीपरिहरणा नाणाईणं न होइ आभागी। दव्वकुलदेसभावे विहिपरिहरणा इमा तत्थ ॥ २०१॥
व्याख्या-'इति । एवमुक्तेन प्रकारेणाविधिना परिहरणात ज्ञानादीनामाभागी न भवति, तस्माद्विधिना परिहरणं कर्तव्यं, तच्च विधिपरिहरणम् 'इदं वक्ष्यमाणं द्रव्यकुलदेशभावानाश्रित्य 'तत्र' आधाकर्मणि विषये द्रष्टव्यम् । तत्र प्रथमतो द्रव्यादीन्येव गाथाद्वयेनाह
ओयणसमिइमसत्तुगकुम्मासाई उ होति दव्वाइं । बहुजणमप्पजणं वा कुलं तु देसो सुरहाई ॥ २०२॥ आयरऽणायर भावे सयं व अन्नेण वाऽवि दावणया। एएसिं तु पयाणं चउपयतिपया व भयणा उ॥२०३ ॥
व्याख्या-ओदनः' शाल्यादिकूरः 'समितिमाः माण्डादिकाः सक्तवः कुल्माषाश्च प्रतीताः, आदिशब्दान्मुद्गादिपरिग्रहः, अमूनि भवन्ति द्रव्याणि, कुलमल्पजनं बहुजनं वा, 'देशः' सौराष्ट्रादिकः, भावे आदरोऽनादरो वा, एतावेव स्वरूपतो व्याख्यानयतिस्वयं वाऽन्येन वा-कर्मकरादिना यद् दापनं तौ यथासङ्ख्यमादरानादरौ, एतेषां च पदानां 'भजना' विकल्पना चतुष्पदा त्रिपदा | वा स्यात् , किमुक्तं भवति ?-कदाचिच्चत्वार्यपि पदानि सम्भवन्ति कदाचित् त्रीणि, तत्र यदा चत्वार्यपि द्रव्यादीनि प्राप्यन्ते तदा चतु-||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org