SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुक्तेर्मलयगिरीयावृत्तिः आधाकर्म|णि परिहारेविध्यवि ॥७२॥ षस्थानीयं च संयमिनामाधाकर्म, ततस्तस्मिन् सर्वात्मना परित्यक्तेऽपि पश्चाददत्ते कल्पत्रये भाजने यत्मक्षिप्यते तदभोज्यमवसेयम् ॥ सम्पति परिहरणं प्रतिपिपादयिषुरिदमाह वंतुच्चारसरिच्छं कम्मं सोउमवि कोविओ भीओ । परिहरइ सावि य दुहा विहिअविहीए य परिहरणा॥१९७॥ व्याख्या-वान्तसदृशमुच्चारसदृशं च आधाकर्म यतीन् प्रति प्रतिपाद्यमानं श्रुत्वा 'अपिः' सम्भावने सम्भाव्यते एतन्नियमतः 'कोविदः संसारविमुखमझतया पण्डितः अत एव 'भीतः आधाकर्मपरिभोगतः संसारो भवतीत्याधाकर्मणस्वस्तस्तदाधाकर्म 'परिहरति 'न गृह्णाति, परिहरणं च द्विधा-विधिना विधिना च, सूत्रे च परिहरणशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गं व्यभिचारि । तत्राविधिपरिहरणं बिभणिषुः कथानकं गाथात्रयेणाह सालीओअणहत्यं दुटुं भणई अकोविओ देति । कत्तोचउत्ति साली वणि जाणइ पुच्छ तं गंतुं॥ १९८ ॥ गंतूण आवणं सो वाणियगं पुच्छए कओ साली ? । पच्चंते मगहाए गोब्बरगामो तहिं वयइ ॥ १९९ ॥ कम्मासंकाएँ पहं मोत्तुं कंटाहिसावया अदिसि । छायपि [वि]वज्जयंतो डज्झइ उण्हेण मुच्छाई ॥ २० ॥ व्याख्या-शालिग्रामे ग्रामे ग्रामणीनामा वणिक, तस्य भार्याऽपि ग्रामणीः, अन्यदा च वणिजि विपणिं गते भिक्षार्थमटन्नकोविदः कोऽपि साधुस्तद्गृहं प्रविवेश, आनीतश्च तद्भार्यया ग्रामण्या शाल्योदनः, साधुना चाधाकर्मदोषाशङ्कापनोदाय सा पप्रच्छे, यथाश्राविके ! कुतस्त्य एष शालिः ? इति, सा प्रत्युवाच-नाहं जाने वणिक जानाति, ततो वणिज विपणौ गत्वा पृच्छति, तत एवमुक्तः सन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy