________________
वेदेषु यथायोगमन्येष्वपि समयेषु गोमांसादिकं करभीक्षीरादिकं चाभिधीयमानं वचनमामाग्याभ्युपगमतस्तयेति प्रतिपद्यन्ते, तयदि मिथ्या-1 दृष्टयः स्वसमयप्रामाण्याभ्युपगमतस्तथेति प्रतिपन्नाः ततः साधुभिर्भगवति सर्वज्ञे प्रत्ययदाळमवलम्बमानविशेषतो भगवत्प्रणीते वचस्यभिधीयमानमाधाकादिकमभोज्यमपेयं च तथेति प्रतिपत्तव्यम् । सम्मति तत्स्पृष्टस्याकल्प्यतामाह
वन्नाइजुयावि बली सपललफलसेहरा असुइनत्था । असुइस्स विप्पुसेणवि जह छिक्काओ अभोज्जाओ ॥ १९५ ॥ __व्याख्या-यथा वर्णादियुतोऽपि 'बलि' उपहारः 'सपललफलशेखरः' इह पललं-तिलमोद उच्यते फलं-नालिकेरादि तत्सहितः शेखरः-शिखा यस्य स तथा, आस्तामनेवविध इत्यपिशब्दार्थः, एतेनास्य प्राधान्यमुक्तं, स एवंविधोऽपि यदा अशुचौ न्यस्तः-पुरी-18 पस्योपरि स्थापितः सन् अशुचेः 'विभुषाऽपि' लपेनापि, आस्तां स्तबकादिनेत्यपिशब्दाः , स्पृष्टो भवति तदा अभोज्यो भवति, एवं 8/ निर्दोषतया भोज्योऽप्याहार आधाकावयवसंस्पृष्टतया साधूनामभोज्यो वेदितव्यः । भोजनस्थितस्याकल्प्यतां भावयति___ एमेव उज्झियंमिवि आहाकम्ममि अकयर कप्पे । होइ अभोज्जं भाणे जत्थ व सुद्धेऽवि तं पडियं ॥ १९६ ॥
व्याख्या-यथा आधाकावयवेन संस्पृष्टमभोज्यम् एवं यस्मिन् भाजने तदाधाकर्म गृहीतं तस्मिन्नाधाकर्मण्युज्झितेऽपि 'अकते कल्पे' वक्ष्यमाणप्रकारेण कल्पत्रयेणाप्रक्षालिते यद्वा यत्र भाजने पूर्व शुद्धेऽपि भक्ते गृहीते आधाकर्म स्तोकमात्रं पतितं तस्मिन् भाजने पूर्वगृहीते शुद्धे आधाकर्मणि च सर्वात्मना त्यक्ते पश्चादकृतकल्पे-वक्ष्यमाणप्रकारेणाकृतकल्पत्रये यद् भूयः शुद्धमपि प्रक्षिप्यते तदभोज्यमवसेयं, न खलु लोकेऽपि यस्मिन् भाजने पुरीषं न्यपतत्तस्मिन्नशुचिपरित्यागानन्तरमप्रक्षालिते यद्वा यस्मिन् भाजने भक्तादिना पूर्णेऽपि सातदुपरि पुरीषं निपतितं भवेत् तस्मिन् पूर्वपरिगृहीतभक्तादिपुरीषपरित्यागानन्तरममक्षालिते भूयः प्रक्षिप्तमशनादिकं भोज्यं भवति, पुरी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org