SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वान्तः, असंयमरूपं चाधाकर्म, षट्कायोपमईनेन तस्य निष्पन्नत्वात, न च वान्तमभ्यवर्तुमुचितं विवेकिनाम्, अतः साधोरनेषणीयमभोज्यमिति । पुनरप्याधाकर्मण एवाभोज्यतां दृष्टान्तान्तरेण समर्थयमानो गाथाद्वयमाह मज्जारखइयमंसा मंसासित्थि कुणिमं सुणयवंतं । वन्नाइ अन्नउप्पाइयंपि किं तं भवे भोज्जं ? ॥ १९२ ॥ केई भणंति पहिए उट्ठाणे मंसपेसि वोसिरणं । संभारिय परिवेसण वारेइ सुओ करे घेत्तुं ॥ १९३ ॥ व्याख्या-वक्रपुरं नाम पुरं, तत्र वसत्युग्रतेजाः पदातिः, तस्य भार्या रुक्मिणी, अन्यदा च उग्रतेजसो ज्येष्ठभ्राता सोदासाभिधानः प्रत्यासन्नपुरात् माघूर्णकः समाययौ, उग्रतेजसा च भोजनाय कापि मांसं कृत्वा रुक्मिण्य समामासे, तस्याश्च रुक्मिण्या गृहव्यापारव्यापृतायास्तन्मांसं मार्जारोऽबभक्षत् , इतश्च सोदासोग्रतेजसो जनार्थमागमनवेला, ततः सा व्याकुलीबभूव, अत्रान्तरे च कापि कस्यापि मृतस्य कार्पटिकस्य शुना मांस भक्षयित्वा तद्गृहमाङ्गणप्रदेशे तस्याः साक्षात्पश्यन्त्याः पुरतः कथमपि वातसंक्षोभादिवशादुद्वमितं, ततः साऽचिन्तयत्-यदि नाम कुतोऽपि विपणेरन्यन्मांसं क्रीत्वा समानेष्यामि तर्हि महदुत्सूरं लगिष्यति, प्राप्ता च समीपं पतिज्येष्ठयोर्भोजनवेला, तस्मादेतदेव मांसं जलेन सम्यक् प्रक्षाल्य वेसवारेणोपस्करोमि, तथैव च कृतं, समागतौ सोदासोग्रतेजसौ उपविष्टौ च भोजनार्थ, परिवेषितं तयोस्तन्मांस, ततो गन्धविशेषेणोग्रतेजसा विजज्ञे यथा वान्तमेतदिति, ततस्तेन साक्षेपं भुवमुत्पाव्य रुक्मिणी पप्रच्छे, सा च साटोपभ्रत्क्षेपदर्शनतो बिभ्यती पवनधुतक्षशाखेव कम्पमानवपुर्यथाऽवस्थितं कथितवती, ततः परित्यज्य तन्मांसं साक्षेपं निर्भर्त्य भूयो|ऽन्यन्मांसं पाचिता, तद्भुक्तं । प्रथमगाथाक्षरयोजना त्वेवं-मार्जारेण खादितं-भक्षितं मांसं यस्याः सा मार्जारखादितमांसा मांसाशिन उग्रतेजसः स्त्री-महेला अन्यन्मांसमप्रामुवती श्ववान्तं कुणपं-मांसं गृहीतवती, तच्च वेसवारोपस्कारेण वर्णादिभिरन्यदिवोत्पादितमपि किं भवति dain Education in t onal For Personal & Private Use Only ww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy