________________
| आधाकर्म
पिण्डनियुतर्मळयगिरीयावृत्तिः
॥७
॥
1000०००००००००००००००००००००
यस्मिन् भाजने तदाधाकर्म प्रक्षिप्तं तस्मिन्नाधाकर्मपरित्यागानन्तरमकृतकल्पत्रयमक्षालने यत् क्षिप्तं शुद्धमशनादि तदपि यथा न कल्प्यं । यथा च तस्याधाकर्मणः परिहारो विध्यविधिरूपो यथा च गृहीतं सद्भक्तमदोषं भवति तथा गुरुर्भणति । अनेन यथैवागमे पिण्डविशु- |णि तत्स्पृद्विरभाणि तथैवाहमपि भणामीत्यावेदितं द्रष्टव्यम् , अनया च गाथया पञ्च द्वाराणि प्रतिपाद्यान्युत्तानि ।। सम्पति तान्येव सविशेष
टाकल्प्यता प्रतिपाद्यत्वेनाह__ अब्भोजे गमणाइ य पुच्छा दव्वकुलदेसभावे य । एव जयंते छलणा दिलुता तत्थिमे दोन्नि ॥ १९ ॥
व्याख्या-यथा साधूनामाधाकर्म तत्स्पृष्टं कल्पत्रयाप्रक्षालितभाजनस्थं वा अभोज्यं तथा भणनीयं, तथा अविधिपरिहारे गमनादिकाः कायक्लेशादिलक्षणा दोषा वक्तव्याः, तथा विधिपरिहारे कर्त्तव्ये यथा द्रव्यकुलदेशभावे पृच्छा कर्त्तव्या चशब्दाद्यथा च न कर्त्तव्या तथा वक्तव्यम्, एवं यतमाने प्रायश्छलनाया असम्भवो, यदि पुनरेवमपि यतमाने ' छलना ' अशुद्धभक्तादिग्रहणरूपा भवेत् | ततस्तत्र दृष्टान्ताविमौ वक्तव्यौ । इह 'अभोज्ये' इत्यनेन पूर्वगाथाया द्वारत्रयं परामृष्ट 'गमणाइ य पुच्छा दबकुलदेसभावे य' इत्यनेन तु परिहरणस्य विशेषो वक्तव्य उक्तः, उत्तरार्द्धन तु 'गहियमदोसं ' चेत्यस्य विशेषः । सम्पति प्रथमं द्वारमाधाकम्मेणोऽकल्प्यतालक्षणं व्याचिख्यासुराह| जह वंतं तु अभोजं भत्तं जइविय सुसक्कयं आसि । एवमसंजमवमणे अणेसणिजं अभोज्जं तु ॥ १९१ ॥ IR॥७०॥
व्याख्या-इह यद्यपि वमनकालादर्बाग् 'भक्तम् । ओदनादिकं 'सुसंस्कृतं' शोभनद्रव्यसम्पर्ककृतोपस्कारमासीत् तथापि यथा तद्वान्तमभोज्यम् , एवमसंयमवमने कृते साधोरप्यनेषणीयमभोज्यमेव, 'तुः' एवकारार्थः, इयमत्र भावना-संयमप्रतिपत्तौ हि पूर्वमसंयमो
Jain Education International
For Personal & Private Use Only
wwwainelibrary.org