________________
उपजायते, ततो विशिष्टविशिष्टतरमनोज्ञरसास्वादनेन भिन्नदंष्टाको 'निद्वन्धसः' अरगतसर्वथादयावासनाको भूत्वा पश्चात्स्वयं परो वा 'सजीवमपि' सचेतनमपि चूतफलादिकं न मुञ्चति, तदमोचने च दूर दूरतरमपसपनपगतसर्वथाजिनवचनपरिणामो मिथ्यात्वमपि गच्छतीति ॥ सम्पति विराधनादोषं भावयति
खड़े निद्धेय सया सुत्ते हाणी तिगिच्छणे काया। पडियरगाणवि हाणी कुणइ किलेसं किलिस्संतो ॥ १८८॥
व्याख्या-आधाकर्म प्रायः माघूर्णकस्यैव गौरवेण क्रियते, ततस्तत्स्वादु स्निग्धं च भवति, तस्मिंश्च 'खद्धे' प्रचुरे 'स्निग्धे' बहनेहे भक्षिते 'रुजा' रोगो ज्वरविसूचिकादिरूपः प्रादुर्भवति, इयमात्मविराधना, ततो रुजापीडितस्य 'सूत्रे' सूत्रग्रहणमुपलक्षणं अर्थस्य च हानिः, तथा यदि चिकित्सां न कारयति तर्हि चिरकालसंयमपरिपालनभ्रंशः, अथ कारयति तर्हि चिकित्सने क्रियमाणे कायाः। तेजस्कायादयो विनाशमाविशन्ति, तथा च सति संयमविराधना, तथा 'प्रतिचारकाणामपि ' परिपालकानामपि साधूनां तद्वयात्त्यव्याप्ततया सूत्रार्थहानिः, षट्कायोपमईकारणानुमोदनाभ्यां च संयमस्यापि हानिः, तथा प्रतिचारकास्तदुक्तं यावन्न प्रपारयन्ति | तावत्सः 'क्लिश्यमानः' पीडां सोढुमशक्नुवन् तेभ्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, अथवा क्लिश्यमानो-दीर्घकालं क्लेशमनुभवन् प्रतिचारकाणामपि जागरणतः क्लेशं-रोगमुत्पादयति, ततस्तेषामपि चिकित्साविधौ पद्कायविरावना । तदेवं व्याख्याता सकलाऽपि 'आहाकम्मियनाम' इत्यादिका मूलद्वारगाथा, सम्पत्याधाकर्मण एवाकल्प्यविधि विभणिषुः सम्बन्धमाहजह कम्मं तु अकप्पं तच्छिकं वाऽवि भायणठियं वा । परिहरणं तस्सेव य गहियमदोसं च तह भणइ ॥ १८९ ॥
व्याख्या-यथा 'कर्म' आधाकर्म अकरप्यम् , अभोज्यं यया च तेनाधाकम्पंगा सृष्टकर यथा च 'भाजनस्थितं,
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org