SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयागरीयावृत्तिः आधाकर्मणि अज्ञानवस्थामिथ्यात्ववि ॥६९॥ राधनः जो जहवायं न कुणइ मिच्छदिट्टी तओ हु को अन्नो? । वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥१८६॥ व्याख्या-इह यद् देशकालसंहननानुरूपं यथाशक्ति यथावदनुष्ठानं तत्सम्यक्त्वं, यत उक्तमाचारसूत्रे-जे माणति पासहा तं | सम्मति पासहा, जं सम्मति पासहा तम्मोणंति पासहा" इति, ततो यो देशकालसंहननानुरूपं शक्त्यनिगूहनेन यथागमेऽभिहितं तथा न करोति ततः सकाशात्कोऽन्यो मिथ्यादृष्टिः?, नैव कश्चित्, किन्तु स एव मिथ्यादृष्टीनां धुरि युज्यते, महामिथ्यादृष्टित्वात् , कथं तस्य मिथ्याहष्टिता? इत्यत आह-' बढेइ' इत्यादि, चशब्दो हेतौ यस्मात्स यथावादमकुर्वन् परस्य शङ्करामुत्पादयति, यथा (तथाहि)-यदि यत्प्रवचनेऽभिधीयते तत्तत्वं तर्हि किमयं तत्त्वं जानानोऽपि तथा न करोति ?, तस्माद्वितथमेतत्प्रवचनोक्तमिति, एवं च परस्य शङ्कां जनयन् मिथ्यात्वं सन्तानेन वर्द्धयति, तथा च प्रवचनस्य व्यवच्छेदः, शेषास्तु मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाद्य परम्परया व्यवच्छेदमाधातुमीशाः, ततः शेषमिथ्यादृष्टयपेक्षयाऽसौ यथावादमकुर्वन् महामिथ्यादृष्टिरिति ॥ अन्यच्चवड्ढेई तप्पसंगं गेही अ परस्स अप्पणो चेव । सजियंपि भिन्नदाढो न मयइ निबंधसो पच्छा ॥ १८७॥ व्याख्या-साधुराधाकर्म गृह्णानः परस्य 'एकेण कयमकज' इत्यादिरूपया पूर्वोक्तनीत्या 'तत्प्रसङ्गम् ' आधाकर्मग्रहणप्रसङ्गं वर्द्धयति आत्मनोऽपि, तथाहि-सकृदपि चेदाधाकर्म गृह्णाति तहि तदतमनोज्ञरसास्वादलाम्पठ्यतो भूयोऽपि तद्हणे प्रवत्तते, तत एवमेकदाऽप्याधाकर्म गृह्णन् परस्यात्मनश्च तत्प्रसङ्गं वर्द्धयति, तत्पसङ्गद्धौ च कालेन गच्छता परस्यात्मनश्च गृद्धिः-अत्यन्तमासक्तिः १ यन्मौनमिति पश्यत तत्सम्यक्त्वमिति पश्यत, यत्सम्यक्त्वमिति पश्यत तन्मौनमिति पश्यत । ॥६९॥ dan Education in For Personal & Private Use Only jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy