SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आणाइणो य दोसा गहणे जं भणियमह इमे ते उ । आणाभंगऽणवत्था मिच्छत्त विराहणा चेव ॥ १८३॥ व्याख्या-यदुक्तम् 'आधाकम्मियनामे ' त्यादिमूलद्वारगाथायामाधाकर्मग्रहणे 'आज्ञादयः' आज्ञाभङ्गादयो दोषाः ते इमे, तद्यथा-आज्ञाभङ्गोऽनवस्था मिथ्यात्वं विराधना च ॥ तत्र प्रथमत आज्ञाभङ्गदोषं भावयति आणं सवजिणाणं गिण्हंतो तं अइक्कमइ लुडो । आणं च अइकमंतो कस्साएसा कुणइ सेसं ? ॥ १८४॥ | व्याख्या-'तद्' आधाकमिकमशनादिकं लुब्धः सन् गृह्णानः सर्वेषामपि जिनानामाज्ञामतिक्रामति, जिना हि सर्वेऽप्येतदेव ब्रुवन्ति स्म-यदुत मा गृह्णीत मुमुक्षवो ! भिक्षव आधाकम्मिकां भिक्षामिति, ततस्तदाददानो जिनाज्ञामतिक्रामति, तां चातिक्रामन् कस्य नाम ! आदेशाद-आज्ञायाः ‘शेष' केशश्मश्रुलुञ्चनभूशयनमलिनवासोधारणप्रत्युपेक्षणाद्यनुष्ठानं करोति ?, न कस्यापीति भावः, सर्वस्यापि सर्वज्ञाऽऽज्ञाभंङ्गकारिणोऽनुष्ठानस्य नैष्फल्यात् ॥ अनवस्थादोषं भावयति एकेण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ १८५॥ __व्याख्या-इह प्रायः सर्वेऽपि प्राणिनः कर्मगुरुतया दृष्टमात्रमुखाभिलाषिणो न दीर्घसुखदर्शिनः तत एकेनापि साधुना यदाऽऽधाकर्मपरिभोगादिलक्षणमकार्यमासेव्यते तदा तत्मत्ययात् तेनापि साधुना तत्त्वं विदुषाऽपि सेवितमाधाकर्म ततो वयमपि किं न सेविभाष्यामहे ? इत्येवं तमालम्बनीकृत्यान्योऽप्यासेवते तमप्यालम्ब्यान्यः सेवते, इत्येवं सातबहुलानां प्राणिनां परम्परया सर्वथा व्यवच्छेदः। प्रामोति संयमतपसां, तयवच्छेदे च तीर्थव्यवच्छेदो, यश्च भगवत्तीर्थविलोपकारी स महाऽऽशातनाभागित्यनवस्थादोषभयान कदाचनाप्याधाकम्मे सेवनीयं । मिथ्यात्वदोषं भावयति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy