SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्यु मलयगिरीयावृत्तिः ॥ ६८ ॥ पितः, ततोऽपि मिण्ठेन छिन्नटङ्कपर्वताग्रभागे व्यवस्थाप्याग्रेतनमेकं कंचिच्चरणमाकाशे कारितः, स च तथाकारितः सन् स्तोकेनैव क्लेशेन तं चरणं व्यावर्च्य तत्रैव पर्वते आत्मानं स्थापयितुं शक्नोति, एवं च साधुरपि कश्चिदतिक्रमाख्यं दोषं प्राप्तः सन् स्तोकेनैव शुभाध्यवसायेन तं दोषं विशोध्यात्मानं संयमे स्थापयितुमीशः, यथा च स हस्ती चरणद्वयमग्रेतनमाकाशस्थं क्लेशेन व्यावर्त्तयितुं शक्नोति, एवं च साधुरपि व्यतिक्रमाख्यं दोषं विशिष्टेन शुभेनाध्यवसायेन विशोधयितुमीष्टे, यथा च स हस्ती चरणत्रयमाकाशस्थमेकेन केनापि पाश्चात्येन चरणेन स्थितो गुरुतरेण कष्टेन व्यावर्त्तयितुं क्षमः, तथा साधुरप्यतीचारदोषं विशिष्टतरेण शुभेनाध्यवसायेन विशोधयितुं प्रभुः, यथा च स हस्ती चरणचतुष्टयमाकाशस्थितं सर्वथा न व्यावर्त्तयितुमीशः, किन्तु नियमतो भूमौ निपत्य विनाशमाविशति, एवं साधुरप्यनाचारे वर्त्तमानो नियमतः संयमात्मानं विनाशयति । इह दृष्टान्ते चरणचतुष्टयं हस्तिना नोत्पाटितं, किन्तु दाष्टन्तिके योजनानुरोधात् सम्भावनामङ्गीकृत्य | प्रतिपादितम् । सम्प्रत्यतिक्रमादीनां स्वरूपमाह - आहाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो गिलिए ॥ १८२ ॥ 1 व्याख्या–आधाकर्म्मनिमन्त्रणे सति तत् आधाकर्म्म ‘प्रतिशृण्वति ' अभ्युपगच्छति अतिक्रमो भवति, स च पात्रोग्रहणादारभ्य तावत् यावन्नाद्याप्युपयोगकरणानन्तरं ग्रहणाय प्रचलति 'पदभेदादौ च पदस्य - चरणस्य भेदः - उत्पादनं तदादौ, आदिशब्दाद्रमने गृहप्रवेशने करोटिकोत्पाटने ग्रहणाय पात्रप्रसारणे च व्यतिक्रमो दोषः, गृहीते त्वाधाकर्म्मणि तृतीयोऽतीचारलक्षणो दोषः, स च तावद्यावद्वसता वागत्य गुरुसमक्षमालोच्य स्वाध्यायं कृत्वा गले तदाधाकर्म नाद्यापि प्रक्षिपति, गिलिते त्वाघाकम्र्म्मणि ' इतर: ' चतुर्थो | दोषः - अनाचारलक्षणः । तदेवं ' चउरो ' इति व्याख्यातं, सम्प्रति 'गहणे य आणाई' इति व्याख्यानयन्नाह - Jain Education International For Personal & Private Use Only आधाकर्म णि अति क्रमाद्याःनू पुरहारिका हस्तिपदो पनयः ॥ ६८ ॥ www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy