________________
99999999999999点命令999999999999994
व्याख्या-आधाकर्मणि विषये केनाप्यभिनवेन श्राद्धेन निमन्त्रणे कृते चत्वारो दोषाः सम्भवन्ति, तद्यथा--अतिक्रमो व्यतिक्रमोऽतीचारोऽनाचारश्च, एते चत्वारोऽपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते, एतेषां च चतुर्णामपि 'निदर्शनं ' दृष्टान्तो भावनीयः, तमपि च वक्ष्यति ॥ तत्र प्रथमत आधाकर्मनिमन्त्रणं भावयति___सालीघयगुलगोरस नवेसु वल्लीफलेसु जाएसुं । दाणे अहिगमसड्ढे आहायकए निमंतेइ ॥ १८० ॥
व्याख्या-शालिषु' शाल्योदनेषु तथा घृतगुडगोरसेषु साधूनाधाय पट्कायोपमईनेन निष्पादितेषु नवेषु च वल्लीफलेषु जातेषु साधुनिमित्तमचित्तीकृतेषु 'दाने दानविषये कोऽप्यभिनवश्राद्धं:-अव्युत्पन्नश्रावको निमन्त्रयते, यथा भगवन् ! प्रतिगृह्णीत यूयमस्मद्गृहे शाल्योदनादिकमिति । ततश्च
आहाकम्मग्गहणे अइक्कमाई वट्टए चउसु । नेउरहारिगहत्थी चउतिगदुगएगचलणेणं ॥ १८१ ॥ व्याख्या-आधाकर्मग्रहणे अतिक्रमादिषु चतुर्पु दोषेषु वर्त्तते, स च यथा यथा उत्तरस्मिन्नुत्तरस्मिन् दोषे वर्तते तथा तथा तदोषजनितात्पापादात्मानं महता कष्टेन व्यावर्त्तयितुमीशः, अत्र दृष्टान्तमाह-नेउरे' त्यादि इह नूपुरपण्डितायाः कथानकमतिप्रसिद्धत्वाद् बृहत्त्वाच्च न लिख्यते, किन्तु धर्मोपदेशमालाविवरणादेवगन्तव्यं, तत्र नूपुरं-मञ्जीरं तस्य हारो-हरणं श्वशुरकृतं तेन या प्रसिद्धा सा नूपुरहारिका, आगमे चान्यत्र नूपुरपण्डितेति प्रसिद्धा, तस्याः कथानके यो हस्ती राजपत्नी सञ्चारयन् प्रसिद्धः स नूपुरहारिकाहस्ती स यथा 'चउतिगद्गएगचलणेणं 'ति पश्चानुपूर्व्या योजना, एकेन द्वाभ्यां त्रिभिश्चतुर्भिश्चरणैराकाशस्थैर्महता महत्तरेण कष्टेनात्मानं व्यावर्तयितुमीशः तथाऽऽधाकर्मग्राह्यपि, इयमत्र भावना-नूपुरहारिकाकथानके राज्ञा हस्ती स्वपत्नीमिण्ठाभ्यां सह छिन्नटड़े समारो
आ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org