________________
पिण्ड नियुतेर्मलयगिरीयावृत्तिः ॥६७॥
白色白白白999999999999白令白宫9999999999
वमुक्तमानुषङ्गिक, तदुक्तौ च 'आहाकम्मियनाम' इत्यादिमूलद्वारगाथायां 'किं वावि ?' इति व्याख्यातं, सम्पति 'परपक्खो य सपक्खो || आधाकर्मइति द्वारद्वयं व्याख्यानयन् प्रसङ्गतो निष्ठितकृतयोः स्वरूपं ताभ्यामुत्पन्नं भङ्गचतुष्टयं चाह
णि स्वपर
पक्षौ कृत। परपक्खो उ गिहत्था समणो समणीउ होइ उ सपक्खो । फासुकडं रद्धं वा निट्टियमियरं कडं सव्वं ॥ १७७ ॥ निष्ठिते
तस्स कडनिट्ठियंमी अन्नस्स कडंमि निट्ठिए तरस । चउभंगो इत्थ भवे चरमदुगे होइ कप्पं तु ॥ १७८ ॥
व्याख्या-इह परपक्षः ' गृहस्थाः' श्रावकादयः, तेषामर्थाय कृतं साधूनामाधाकर्म न भवति, स्वपक्षः 'श्रमणाः' साधवः | 'समणीउ 'त्ति श्रमण्यो वतिन्यः, तेषामर्थाय कृतं साधूनामाधाकर्म चेदितव्यं, तथा प्रासुकं कृतं करट्यादिकं सचेतनं सत् साध्वर्थ | निश्चेतनीकृतं यच्च स्वयमचेतनमपि तण्डुलादिकं कूरत्वेन निष्पादितं तनिष्ठितमित्युच्यते, इतरत्पुनरेकगुणद्विगुणकण्डिततण्डुलादिकं सर्व कृत-|| |मिति । अत्र च कृतनिष्ठितविषये तस्य साधोराय कृते निष्ठिते च तथा अन्यस्याप्यर्थाय कृते तस्य साधोराय निष्ठिते भक्तादौ चतुर्भजिका भवति, तत्र प्रथमतृतीयभङ्गौ साक्षाद्दर्शितौ द्वितीयचतुर्थों तु गम्यौ, तौ चैवं-तस्य कृतमन्यस्य निष्ठितमन्यस्य कृतमन्यस्य निष्ठितं, तत्रोपात्तयोयोर्भङ्गयोः चरमो-अनुक्तौ पाश्चात्यो द्वौ भङ्गो, द्वि(तीय) चतुर्थावित्यर्थः, प्रथमस्य हि द्वितीयः पाश्चात्यस्तृतीयस्य तु चतुर्थः, तत उपाचप्रथमतृतीयभङ्गापेक्षया चरमौ द्वितीयचतुर्थों लभ्येते, तस्मिंश्चरमद्विके भवति कल्प्यमशनादि, एतच्च यद्यपि प्रागेवोक्तं तथापि| विस्मरणशीलानां स्मरणाय भूयोऽप्युक्तमिति न कश्चिद्दोषः । उक्तं परपक्षस्वपक्षरूपं द्वारद्वयं, सम्पति 'चउरो' इति व्याचिख्यासुराह
चउरो अइक्कमवइक्कमा य अइयार तह अणायारो । निदरिसणं चउण्हवि आहाकम्मे निमंतणया ॥ १७९ ॥
Jain Education Mernational
For Personal & Private Use Only
al
w.jainelibrary.org