________________
100000००००००००००००००००००००००००
कल्पते, न चैतदागमोपदिष्टं, तन्नाधाकम्मिकी वृक्षस्य छाया, अपि च-पागेवैतदुक्तं सूर्यप्रत्यया सा छाया न वृक्षहेतुका, न च सूर्यः|| मुविहितानाधाय छायां निवर्त्तयति ततः कथमाधाकर्मिकी ? । यदि पुनराधाकर्मिकी भवेत, तर्हि| अघणघणचारिगगणे छाया नट्ठा दिया पुणो होइ । कप्पइ निरायवे नाम आयवे तं विवज्जेउं ॥ १७५॥
व्याख्या-अघना-विरला घना-मेघाः चारिणः-परिभ्रमणशीला यत्र इत्यंभूते गगने, विरलविरलेषु नभसि मेघेषु परिभ्रमत्सु इत्यर्थः, छाया नष्टापि सती दिवा पुनरपि भवति, ततो मेधैरन्तरिते सूर्ये 'निरातपे' आतपाभावे तस्य वृक्षस्याधस्तनं प्रदेशं सेवितुं कल्पते, आतपे तु तं वयितुं, न चायं विषयविभागः सूत्रेऽपदिश्यते न च पूर्वपुरुषाची! नापि परेषां सम्मतः, तस्मादसदेतत्परोक्तमिति । इह पूर्व वृक्षसम्बन्धित्वेन छायामाधाकर्मिकीमाशङ्कय 'नट्ठच्छाए उ दुमे कप्पइ ' इत्याद्युक्तम् , इदानीं तु रविकृतत्वेनाधाकमिकीमाशङ्कय 'कप्पइ निरायवे नाम' इत्याद्युक्तम् , अतो न पुनरुक्तता । सम्पति छायानिर्दोषतानिगमनमगीतार्थधार्मिकाणां परेषां । किञ्चिदाश्वासनं च विवक्षुराहतम्हा न एस दोसो संभवई कम्मलक्खणविहणो । तंपि य हु अइघिणिल्ला वज्जेमाणा अदोसिल्ला ॥ १७६॥
व्याख्या-यस्मात्फलमपि द्वितीये भङ्गे कल्पते तथा रविहेतुका छाया इत्यादि चोक्तं तस्मादाधाकर्मिमकी छायेति यो दोष उच्यते स एष दोषो न सम्भवति, कुतः ? इत्याह-'कर्मलक्षणविहीन' इति, अत्र हेतौ प्रथमा, कर्मेति च आधाकम्र्मेति द्रष्टव्यं, ततोऽयमर्थः-यत आधाकर्मलक्षणविहीन एष दोषः, न हि तरुरिव छायापि का वृद्धि नीता इत्यादि, तस्मान्नैष दोषः सम्भवति, अथवा 'तामपि' आधाकम्मिकक्षच्छायां 'दुः" निश्चितम् 'अतिघृणावन्तः अतिशयेन दयालबो विवर्जयन्तः परेऽदोषवन्तः । तदे
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org