SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्युतेर्मलयगि रीयावृत्तिः ॥ ६६ ॥ कल्यादौ वृक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीयात्मसत्तासम्बन्धि करोति त्रोटयति च तदा तदपि कल्पते, किं पुनश्छाया ?, सा हि सर्वथा न साधुसत्तासम्बन्धिनी विवक्षिता, न हि साधुच्छायानिमित्तं स वृक्ष आरोपितस्तत्कथं न कल्पते ? ॥ परपच्चइया छाया न विसा रुक्खोव्व वट्टिया कत्ता । नट्ठच्छाए उ दुमे कप्पइ एवं भतस्स ॥ १७३ ॥ व्याख्या—सा छाया ‘परप्रत्ययिका ' सूर्यहेतुका, न वृक्षमात्रनिमित्ता, तस्मिन् सत्यपि सूर्याभावे अभावात्, तथाहि - छायानाम पार्श्वतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्त्ती श्यामपुद्गलात्मक आतपाभावः इत्यंभूता च छाया सूर्यस्यैव अन्वयव्यतिरेका, चतुविंधत्वेन द्रुमस्य, द्रुमस्तु केवलं तस्या निमित्तमात्रं न चैतावता सा दुष्यति, छायापुद्गलानां द्रुमपुद्गलेभ्यो भिन्नत्वात् न च 'वृक्ष इव' तरुरिव 'कर्त्रा वृक्षारोपण वृद्धिं नीता, तद्विषयतथारूपसङ्कल्पस्यैवाभावात्, ततो नाधाकस्मिकी छाया । किं च यद्याधाकस्मिकी छायेति न तस्यामवस्थानं कल्पते तत एवं परस्य भणतो यदा घनपटलैराच्छादितं गगनमण्डलं भवति तदा तस्मिन् द्रुमे नष्टच्छाये सति | तस्याधः शीतभयादिनाऽवस्थानं कल्पते इति प्राप्तं, न चैतद्युक्तं, तस्मात्स एव द्रुम आधाकस्मिकस्तत्संस्पृष्टाश्चाधः कतिपयप्रदेशा: पूतिरिति प्रतिपत्तव्यं, न तु च्छायाऽऽधाकर्मिकीति । पुनरपि परेषां दूषणान्तरमाह इ हाइ छाया तत्थिकं पूइयंपि व न कप्पे । न य आहाय सुविहिए निव्वत्तयई रविच्छायं ॥ १७४ ॥ व्याख्या—इह छाया तथातथासूर्यगतिवशादर्द्धते हीयते च ततो वैरस्तमयसमये प्रातः समये चातिद्राघीयसी विवर्द्धमाना छाया | सकलमपि ग्राममभिव्याप्य वर्तते, अतस्तत्स्पृष्टं सकलमपि ग्रामसम्बन्धि वसत्यादिकं 'पूतिकमित्र ' तृतीयोद्गमदोषदुष्टमशनादिकमिव न Jain Education International For Personal & Private Use Only $3000. आधाकर्म णि अशन स्य संभवः ॥ ६६ ॥ www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy