________________
स्मायित्येवं यावत्सहस्रसङ्खये स्थाने गताः, ततः परं गताः कल्पन्ते नार्वाक्, अपरेषां त्वादेशेन न कदाचिदपि, यदि पुनरे द्वौ वा वारी साधुनिमित्तमात्मनिमित्तं वा कण्डितास्तृतीयं तु वारमात्मनिमित्तं राद्धाः पुनः साध्वर्थ ते न कल्पन्ते, यदि पुनरे द्वौ वा वारौ साधु-| निमित्तमात्मनिमित्तं वा कण्डितास्तृतीयं तु वारं साध्वर्थमेव, तैरेव च तण्डुलैः साधुनिमित्तं निष्पादितः कूरः स निष्ठितकृत उच्यते, निष्ठितैराधाकर्मतंडुलैः कृतो-निष्पादितो राद्ध इत्यर्थः निष्ठितकृतः, स साधूनां सर्वथा न कल्पते, कुतः ? इत्याह-'आहाकम्म इत्यादि, आधाकर्म प्रतीतं द्विगुणमाहुस्तीर्थकरादयस्तं निष्ठितकृतं कूरं, तत्रैकमाधाकर्मनिष्ठिततण्डुलरूपं द्वितीयं तु पाकक्रियारूपं, तदेवमुक्तो निष्ठितकृतशब्दयोरर्थः, सम्पति चतुर्वप्यशनादिषु कृतनिष्ठितता भाव्यते-तत्र वपनादारभ्य यावद्वारद्वयं कण्डनं तावत्कृतत्वं, तृतीयवारं तु कण्डनं निष्ठितत्वम् , एतच्चानन्तरमेवोक्तं पाने कूपादिकं साधुनिमित्तं खनितं, ततो जलमाकृष्ट, ततो यावत् प्रासुकीक्रियमाणं नाद्यापि सर्वथा मासुकीभवति तावत्कृतं, प्रासुकीभूतं च निष्ठितं, खादिमे कर्कटिकादयः साधुनिमित्तमुप्ताः क्रमेण निष्पन्ना यावद्दात्रादिना खण्डिताः, तानि च खण्डानि यावन्नाद्यापि मासुकीभवन्ति तावत्कृतत्वमवसेयं, पासुकीभूतानि च तानि निष्ठितानि । एवं स्वादिमेऽपि विज्ञेयं । सर्वत्रापि च द्वितीयचतुर्थभङ्गो शुद्धौ, प्रथमवृतीयौ त्वशुद्धाविति । सम्पति खादिमस्वादिममाश्रित्य मतान्तरं प्रतिचिक्षिप्राह
छायंपि विवज्जंती केई फलहेउगाइवुत्तस्स । तं तु न जुज्जइ जम्हा फलंपि कप्पं बिइयभंगे ॥ १७२ ॥
व्याख्या-इह 'फलहेतुकादेः' फलहेतोः पुष्पहेतोरन्यस्मादा हेतोः साध्वर्थमुप्तस्य वृक्षस्य 'केचिद् अगीतार्थाश्छायामप्याधाकमिकक्षसम्बन्धिनीतिकृत्वा ‘विवर्जयन्ति' परिहरन्ति, तत्तु छायाविवर्जनं न युज्यते, यस्मात्फलमपि यदर्थं स वृक्ष आरोपितस्तत आधाकर्मिमकक्षसम्बन्धिद्वितीये भङ्गे तस्य कृतमन्यार्थ निष्ठितमित्येवंरूले वर्तमान सा कल्पते, किमुकं भवति ?-साध्वर्थ पारोपितेऽपि
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
a
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org