________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
आधाकर्मणि अशनस्य संभवः
॥६५॥
नामौषधाद्यर्थममूनि कल्पन्ते इति तेषां रोपणादि कुर्यादिति भावः । सम्पति यदुक्तं प्राक् 'तस्स कडनिद्वियम्मी ' त्यादि, तत्र कृतनिष्ठितशब्दयोरर्थमाह
असणाईण चउण्हवि आमं जं साहुगहणपाउग्गं । तं निट्ठियं वियाणसु उवक्खडं तू कडं होइ ॥ १७ ॥
व्याख्या-अशनादीनां चतुर्णामपि मध्ये यत् 'आमम्' अपरिणतं सत् साधुग्रहणप्रायोग्यं कृतं, मासुकीकृतमित्यर्थः तं निष्ठितं विजानीत, उपस्कृतं तु अत्रापि बुद्धावादिकर्मविवक्षायां क्तप्रत्ययः ततोऽयमर्थः-उपस्कर्तुमारब्धमिति भावः, कृतं भवति ज्ञातव्यम् । एतदेव विशेषतो भावयति
कंडिय तिगुणुकंडा उ निट्ठिया नेगदुगुणउक्कंडा । निट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु ॥ १७१ ॥ | व्याख्या-इह ये तण्डुलाः प्रथमतः साध्वर्थमुप्ताः ततः क्रमेण करटयो जातास्ततः कण्डिताः, कथंभूताः कण्डिताः? इत्याह'त्रिगुणोत्कण्डाः, त्रिगुणं-त्रीन् वारान् यावत् उत्-याबल्येन कण्डनं-छटनं येषां ते त्रिगुणोत्कण्डाः, त्रीन् वारान् कण्डिता इत्यर्थः, ते निष्ठिता उच्यन्ते, ये पुनर्वपनादारभ्य यावदेकगुणोत्कण्डा द्विगुणोत्कण्डा वा कृता वर्तन्ते ते कृताः, अथवा मा भूवन साध्वर्थमुप्ताः केवलं ये करटयः सन्तः साध्वर्थं त्रिगुणोत्कण्डकण्डितास्ते निष्ठिता उच्यन्ते, ये त्वेकगुणोत्कण्डं द्विगुणोत्कडं वा कण्डितास्ते कृताः, अत्र द्धसम्पदायः-इह यद्येकं वारं द्वौ वा वारौ साध्वर्थ कण्डितास्तृतीयं तु वारमात्मनिमित्तं कण्डिता राद्धाश्च ते साधूनां कल्पन्ते, यदि पुनरेकं | द्वौ वा वारौ साध्वर्थ कण्डितास्तृतीयं वारं स्वनिमित्वमेव काण्डिता राद्धास्तु आत्मनिमित्तं ते केषाश्चिदादेशेनैकेनान्यस्मै दत्तास्तेनाप्यन्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org