SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 2000000000000000000000000000०००००० व्याख्या-यथाऽशनस्याधाकर्मणः कथानकसूचनेन सम्भव उक्तस्तथा पानस्याप्याधाकर्मणो वेदितव्यः, कथानकमपि तथैव, केवलमयं विशेष:-कचिदामे सर्वेऽपि कूपाः क्षारोदका आसीरन् , क्षारोदका नामामलकोदका विज्ञेयाः, न त्वत्यन्तक्षारजलाः, तथा सति ग्रामस्याप्यवस्थानानुपपत्तेः, ततस्तस्मिन् लवणावटे क्षेत्रे क्षेत्रप्रत्युपेक्षणाय साधवः समागच्छन् , परिभावयन्ति स्म च यथाऽऽगमं सकलमपि क्षेत्रं, ततस्तन्निवासिना श्रावकेण सादरमुपरुध्यमाना अपि साधवो नावतिष्ठन्ते, ततस्तन्मध्यवर्ती कोऽपि ऋजुकोऽनवस्थानकारणं पृष्टः, स च यथावस्थितं तस्मै कथयामास-यथा विद्यन्ते सर्वेऽप्यत्र गुणाः, केवलं क्षारं जलमिति नावतिष्ठन्ते, ततो गतेषु तेषु साधुषु स मधुरोदकं | कूपं खानितवान् , तं खानयित्वा लोकप्रवृत्तिजनितपापभयाद् फलकादिना स्थगितमुखं कृत्वा तावदास्ते यावत्ते वाऽन्ये वा साधवः समा-| ययुः, समागतेषु च साधुषु मा मम गृहे केवले आधार्मिकशङ्का भूदिति प्रतिगृहं तन्मधुरमुदकं भाजितवान्, ततः पूर्वोक्तकथानकप्रकारेण साधवो बालादीनामुल्लापानाकाधाकर्मेति च परिज्ञाय तं ग्राम परिहृतवन्तः, एवमन्यत्राप्याधाकर्मपानीयसम्भवो द्रष्टव्यः, तेऽपि च । बालाघुल्लापविशेषैः परिकलय्य कथानकोक्तसाधव इव परिहरेयुरिति । सूत्रं सुगमम् । सम्पति खादिमस्खादिमयोराधाकर्मणोः सम्भवमाह___ कक्कडिय अंबगा वा दाडिम दक्खा य बीयपूराई । खाइमऽहिगरणकरणंति साइमं तिगडुगाईयं ॥ १६९ ॥ व्याख्या-कर्कटिका' चिटिका 'आम्रकाणि' चूतफलानि, दाडिमानि द्राक्षाश्च प्रतीताः, बीजपूरकादिकम् , आदिशब्दाकपित्थादिपरिग्रहः, एतानाश्रित्य खादिमविषये 'अधिकरणकरणं भवेत् ' पापकरणं भवेत् , एतानि साधनां शालनकादिकार्येषु प्रयुज्यन्ते इति तेषां वपनादि कुर्यादिति भावः । तथा 'त्रिकटुकादिकं' सुण्ठीपिप्पलीमरिचकादिकमाश्रित्य स्वादिमे अधिकरणकरणं भवेत, साधू Jain Education inemalonal For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy