________________
आधाकर्म
पिण्डानयुतेर्मलयगिरीयावृत्तिः
शाल्योदनं देहीति, अन्यस्त्वीषद्दरिद्रः सहर्ष भाषते-अहो ! थके थक्कावडियमस्माकं सम्पन्नं, इह यद् अवसरेऽवसरानुरूपमापतति तत् थक्केथकावडियमित्युच्यते, ततः स एवमाह-येनाभक्ते भक्ताभावेऽस्माकं शालिभक्तमुदपादि । अत्रैवार्थे स लौकिक
णि अशनदृष्टान्तमुदाहरति, सूरग्रामे यशोधराभिधाना काचिदाभीरी तस्या योगराजो नाम भर्ता, वत्सराजो नाम देवरः, तस्य भार्या |
स्य संभवः योधनी, अन्यदा च मरणपर्यवसानो जीवलोको मरणं चानियतहेतुकमनियतकालमिति योधनीयोगराजौ समकालं मरणमुपागतो, ततो यशोधरा देवरं वत्सराजमयाचत-तव भार्याऽहं भवामीति, देवरोऽपि च ममापि भार्या न विद्यते इति विचिन्त्य प्रतिपन्नवान्, ततः सा चिन्तयामास-अहो! अवसरेऽवसरापतितमस्माकमजायत, यस्मिन्नेवावसरे मम पतिः पञ्चत्वमुपागमत् तस्मिन्नेवावसरे मम देवरस्यापि भायो मृत्युमगच्छत् , ततोऽहं देवरेण भार्यात्वेन प्रतिपन्ना, अन्यथा न प्रतिपद्येत । तथा कापि बालको जननीमाचष्टेमातः ! शालितण्डुलोदकमपि साधुभ्यो देहि, अन्यस्त्वाह-शालिकाञ्जिकं, तत एवमादीनि बालादिजनजल्पितानि श्रुत्वा किमेतदिति पृच्छन्ति, पृष्टे च सति ये ऋजवस्ते यथावत्कथितवन्तो यथा युष्माकमायेदं कृतमिति, ये तु मायाविनः श्रावकेण वा तथा प्रज्ञापितास्ते न कथयन्ति, केवलं परस्परं निरीक्षन्ते, तत एवं नूनमिदमाधाकर्मेति परिज्ञाय तानि सर्वाण्यपि गृहाणि परिहत्यान्येषु भिक्षार्थमटन्ति स्म, ये च तत्र न निर्वहन्ति स्म ते तत्रानिर्वहन्तः प्रत्यासन्ने ग्रामे भिक्षार्थमगच्छन्, एवमन्यत्राप्याधाकर्म सम्भवति, तच्च बालादिजल्पितविशेषैरवगत्य कथानकोक्तसाधुभिरिव नियमतो निष्कलङ्कसंयममिच्छुना परिहर्त्तव्यं, सूत्रं तु सकलमपि सुगम, नवरं 'रुंपण 'त्ति रोपणं 'परिभायणत्ति गृहे परिभाजनं 'से' इति एतेभ्यः ' अन्नति अन्यं ग्रामम् । तदेवमुक्तोऽशनस्याधाकर्मणः सम्भवः, सम्पति पानस्याह
लोणागडोदए एवं, खाणित्तु महुरोदगं । ढक्किएणऽच्छते ताव, जाव साहुत्ति आगया ॥ १६८ ॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org