SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कितगात्रेण तेभ्यो वसतिः कल्पनीया उपादेशि, सावध तत्र स्थिताः, ययागमं भिक्षाप्रवेशनेन बहिभूमौ स्थण्डिलनिरीक्षणेन च सकलमपि ग्रामं प्रत्युपेक्षितवन्तः, जिनदत्तोऽपि च श्रावको वसतावागत्य यथाविधि साधून वन्दित्वा महत्तरं साधुमपृच्छत्-भगवन् ! रुचितमिदं युष्मभ्यं क्षेत्रं ?, सूरयोऽत्र निजसमागमेनास्माकं प्रसादमाधास्यन्ति ?, ततः स ज्येष्ठः साधुरवादीत्-वर्तमानयोगेन, ततो ज्ञातं |जिनदत्तेन-यथा न रुचितमिदमेतेभ्यः क्षेत्रमिति, चिन्तयति च-अन्येऽपि साधवोऽत्र समागच्छन्ति परं न केचिदवतिष्ठन्ते, तन्न जानामि किमत्र कारणमिति, ततः कारणपरिज्ञानाय तेषां साधूनामन्यतमं कमपि साधुमृनुं ज्ञात्वा पपच्छ, स च यथावस्थितमुक्तवान् , यथाऽत्र | सर्वेऽपि गुणा विद्यन्ते, गच्छस्यापि च योग्यमिदं क्षेत्रं, केवलमत्राचार्यस्य प्रायोग्यः शाल्पोदनो न लभ्यते इति नावस्थीयते । तत एवं कारणं परिज्ञाय तेन जिनदत्तश्रावकेणापरस्माद्रामात शालीबीजमानीय निजामक्षेत्रभूमिषु वॉपितं, ततः सम्पनो भूयान् शालिः, अन्यदा च यथाविहारक्रमं ते वाऽन्ये वा साधवः समायासिषुः, श्रावकश्च चिन्तयामास-यथैतेभ्यो मया शाल्योदनो दातव्यो येन सूरीणामिदं योग्यं क्षेत्रमिति परिभाव्य साधवोऽमी सूरीनानयन्ति, तत्र यदि निजगृह एव दास्यामि ततोऽन्येषु गृहेषु कोबरालककूरं लभमानानामेतेषामाधाकर्मशङ्कोत्पत्स्यते तस्मात्सर्वेष्वपि स्वजनगृहेषु शालिं प्रेषयामीति,तथैव च कृतं,स्वजनांचोक्तवान् यथा स्वयपप्पमुं शालिं पक्त्वा भुञ्जत, साधुभ्योऽपि च ददत, एष च वृत्तान्तः सर्वोऽपि बालादिभिरवजग्मे, साधवश्व भिक्षार्थमटन्तो यथाऽऽगममेषणासमितिसमिता बालादीनामुक्तानि शृण्वन्ति, तत्र कोऽपि बालको वक्ति-एते ते सावो येषामर्थाय गृहे शाल्योदनो निरपादि, अन्यो भाषते-साधुसम्बन्धी शाल्योदनो मां जनन्या ददे, दात्री वा कचिदेवं भाषते-दत्तः परकीयः शाल्योदनः सम्पत्यात्मीयं किमपि ददामि, गृहनायकोऽपि कापि ब्रूतेदत्तः शाल्योदनः परकीयः सम्पत्यात्मीयं किमपि देहि, बालकोऽपि कापि कोऽप्यनभित्रो जननी ब्रूते-म सावुसम्बन्धित Jain Education Internationa For Personal & Private Use Only Aww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy