________________
सालीमाइ अवडे फलाइ सुंठाइ साइमं होइ । व्याख्या-शाल्यादिकमशनम् , अवट इति वापिकूपतडागाद्युपलक्षणं, ततः कूपवापीतडागादौ यजलं तत्पानं, तथा 'फलादि। फलं-नालिकेरादि, आदिशब्दाच्चिश्चिणिकापुष्पादिपरिग्रहस्तत् खादिम, शुण्ठ्यादिकं स्वादिम, तत्र शुण्ठी प्रतीता, आदिशब्दात हरीतक्यादिपरिग्रहः । तदेवं व्याख्यातान्यशनादीनि, सम्प्रत्येतेष्वेवाधाकर्मरूपेषु प्रत्येकं भङ्गचतुष्टयमाह
तस्स कडनिट्ठियमी सुद्धमसुद्धे य चत्वारि ॥ १६१ ॥ व्याख्या-तस्यति प्रस्तावात् साधोराय ‘कृतमि'त्यत्र बुद्धावादिकर्मविवक्षायां क्तप्रत्ययः, ततोऽयमर्थः-कर्तुं प्रारब्धं, तथा तस्य साधोराय 'निष्ठितं ' सर्वथा प्रासुकीकृतमिति, अत्र विषये 'चत्वारि' इति चत्वारो भङ्गा भवन्ति, तत्र प्रथम एष एव भङ्गः-तस्य कृतं तस्य निष्ठितं, द्वितीयस्तस्य कृतमन्यस्य निष्ठितं, तृतीयोऽन्यस्य कृतं तस्य निष्ठितं, चतुर्थोऽन्यस्य कृतमन्यस्य निष्ठितं । तत्र प्रथमो व्याख्यातो द्वितीयादीनां तु भङ्गानामयमर्थः-पूर्व तावत्तस्य साधोराय कर्तुमारब्धं ततो दातुः साधुविषयदानपरिणामाभावतोज्यस्य-आत्मनः स्वपुवादेर्वार्थाय निष्ठां नीतं, तथा प्रथमतोऽन्यस्य-पुत्रादेरात्मनो वाऽर्थाय कर्तुमारब्धं ततः साधुविषयदानपरिणामभावतः साधोराय निष्ठां नीतं, तथा प्रथमत एवान्यस्य निमित्तं कर्तुमारब्धमन्यस्यैव च निमित्तं निष्ठां नीतम् , एवमशने पाने खादिमे स्वादिमे च प्रत्येकं चत्वारचत्वारो भङ्गा भवन्ति, तत्र 'सुद्धमसुद्धे यत्ति आर्षत्वात् शुद्धावशुद्धौ चेति द्रष्टव्यं, तत्र शुद्धौ-साधोरासेवनायोग्यौ, तौ च द्वितीयचतुभङ्गो, तथाहि-क्रियाया निष्ठा प्रधाना, ततो यद्यपि प्रथमतः साधुनिमित्तं क्रिया प्रारब्धा तथापि निष्ठामन्यनिमित्तं नीतेति द्वितीयो भङ्गः साधोः कल्पते, चतुर्थस्तु भङ्गः शुद्ध एव, न तत्र विवादः, अशुद्धौ-अकल्पनीयौ, तौ च प्रथमतृतीयौ, तत्र प्रथम एकान्तेनाशुद्ध एव साध्वर्थ ||
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org