________________
रीयावृत्तिः
पिण्डनिर्यु - * पामर्थाय कृतं कल्पते, ये तु चौरादिमुषितरजोहरणादिलिङ्गाः साधवस्तेषामर्थाय कृतं न कल्पते, द्रव्यलिङ्गापेक्षया साधर्मिकत्वाभावेऽपि तेर्मलयगि भावतश्चरणसाधर्मिकत्वात्, लिङ्गतः साधर्मिका न प्रवचनतो निह्नवाः ते यदि लोके निवत्वेन ख्यातास्ततस्तेषामर्थाय कृतं कल्पते, अन्यथा न, न प्रवचनतो न लिङ्गतः तीर्थकर प्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, तदेवं प्रथमचतुर्भङ्गिकामधिकृत्य कल्पयाकल्प्यविधिरुक्तः, एतदनुसारेण च शेषास्वपि चतुर्भङ्गिकासु विज्ञेयः, स च प्रागेव प्रत्येकं दर्शितः । सर्वत्राप्ययं तात्पर्यार्थोऽवधारणीयः - यदि तीर्थकराः प्रत्येकबुद्धा निह्नवाः श्रावका वा तर्हि तेषामर्थाय कृतं कल्पते साधूनामर्थाय कृतं न कल्पते । तदेवमुक्तः कल्प्या कल्प्यविधिः, तदुक्तौ च 'आहाकम्पियनामे 'त्यादिमूलद्वारगाथायां 'कस्स वावी 'ति व्याख्यातं सम्प्रति 'किं वावी 'ति व्याचिख्यासुराह—
॥ ६२ ॥
किं तं आहाकम्मति पुच्छिए तस्सरूवकहणत्थं । संभवपदरिसणत्थं च तस्स असणाइयं भइ || १६० ॥
व्याख्या—किं तदाघाकर्म्म इति शिष्येण पृष्ठे 'तत्स्वरूपकथनार्थम् ' आधाकर्म्मस्वरूपकथनार्थ ' तस्य ' आधाकर्मणः सम्भवम् - दर्शनार्थं च 'अशनादिकम् ' अशनपानखादिमस्वादिमं गुरुर्भणति, इयमत्र भावना - अशनादिस्वरूपमाधाकर्म- अशनादावेव चाधाक णः सम्भवः, ततो गुरुः किमाधाकम् इति पृष्टः सन्नशनादिकमेव वक्ति, तथा च शय्यम्भवसूरिराधाकर्म्म दर्शयन् पिण्डैषणाध्ययने| ऽशनादिकमभिधत्ते, तद्यथा - " असेणं पाणगं चेव, खाइमं साइमं तदा । जं जाणिज्ज सुणिज्जा वा, समणहा पगडे इमं ॥ १ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । देंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ २ ॥ " इति । सम्प्रत्यशनादिकमेव व्याचष्टे—–
Jain Education International
१ अशनं पानकमेव खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा श्रमणार्थं प्रकृतमिदम् ॥ १ ॥ तद्भवेद्भक्तपानं तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ २ ॥
For Personal & Private Use Only
आधाकर्मकिंत
दितिद्वारं
।। ६२ ।।
www.jainelibrary.org