SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कादीन् भावान् । क्षायिकक्षायोपशमिकौपशमिकानि दर्शनानि, चशब्दाद्विचित्राणि ज्ञानानि चरणानि अभिग्रहान् भावनाश्च प्रतीत्य भङ्गान् योजयेत् , ते च तथैव योजिताः । तत्र प्रथमचतुर्भङ्गिका प्रवचनलिङ्गविषयामधिकृत्य विशेषतः कल्प्याकल्प्यविधिमाह जत्थ उ तइओ भंगो तत्थ न कप्पं तु सेसए भयणा । तित्थंकरकेवलिणो जहकप्पं नो य सेसाणं ॥ १५९॥ व्याख्या-यत्र साधर्मिके तृतीयो भङ्गः प्रवचनतः साधर्मिका लिङ्गतश्चेत्येवंरूपस्तत्र न कल्पते, यतः प्रवचनतो लिङ्गतश्च साधर्मिकाः प्रत्येकबुद्धतीर्थकरवर्जा यतयः ततस्तेषामर्थाय कृतं न कल्पते, तुशब्दोऽनुक्तसमुच्चयार्थः, स च श्रावकस्यैकादशी प्रतिमा प्रतिपन्नस्य तृतीयभङ्गभाविनोऽप्यर्थाय कृतं कल्पते इति समुच्चिनोति, केचिदाहुः-एकादशी प्रतिमा प्रतिपन्नः साधुकल्प इति तस्याप्यर्थाय कृतं न कल्पते, तदयुक्तं, मूलटीकायामस्यार्थस्यासम्मतत्वात् , मूलटीकायां हि लिङ्गाभिग्रहचतुर्भङ्गिकाविषये कल्प्याकल्प्यविधिरेवमुक्तः-“लिङ्गे नो अभिग्गहे जइ साहू न कप्पइ गिहत्यनिण्हवे कप्पइ "त्ति इह लिङ्गयुता गृहस्था एकादशी प्रतिमा प्रतिपन्नाः श्रावका एव लभ्यन्ते, ततस्तेषामर्थाय कृतं कल्प्यमुक्तं, 'सेसए भयण त्ति शेषके भङ्गकत्रये 'भजना' विकल्पना कचित् कथञ्चित्कल्पते कचिन्न, भङ्गचतुष्टयमप्यधिकृत्य सामान्यत उदाहरति-'तित्थंकरे 'त्यादि, यथेत्युदाहरणोपन्यासार्थः तीर्थकरकेवलिनोऽर्थाय कृतं कल्पते, इह तीर्थकर उत्पन्नकेवलज्ञान एवं प्रायः सर्वत्रापि भूमण्डले प्रतीतो भवति, प्रतीतस्य च तीर्थकरस्यार्थाय कृतं कल्पते नापतीतस्य ततः केवलिग्रहणं, यदा पुनश्छद्मस्थावस्थायामपि तीर्थकरत्वेन प्रतीतो भवति तदा तस्यामप्यवस्थायां तन्निमित्तं कृतं कल्पते, तीर्थकरग्रहणं च प्रत्येकबुद्धानामुपलक्षणं, तेन तेषामप्यर्थाय कृतं कल्पते, 'नो य सेसाणं'ति शेषसाधूनामर्थाय कृतं न कल्पते, इदं च सामान्यत उक्तं, ततोऽमुमेवार्थमुपजीव्य तृतीयवर्जे शेषे भङ्गत्रये भजना स्पष्टमुपदयते-प्रवचनतः साधर्मिका न लिङ्गतः, एकादशपतिमापतिपनवाः शेषश्रावकारते. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy