SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः आधाकर्मणि साध|र्मिक प्ररू पणा जइणो सावरा निण्हव पढमे बिइए य हुंति भंगे य । व्याख्या-अभिग्रहतः साधर्मिका न भावनात इत्येवंरूपे प्रथमे भङ्गे भावनातः साधर्मिका नाभिग्रहत इत्येवंरूपे द्वितीये च भङ्गे यतयः श्रावका निवाश्च भवन्ति, केवलं प्रथमभङ्गे समानाभिग्रहा विसदृशभावना वेदितव्याः, द्वितीये भङ्गे पुनः समानभावना विसदृशाभिग्रहाः, अभिग्रहतः साधर्मिका भावनातश्च समानभावनाभिग्रहाः साधुश्रावकनिहवाः, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहाः साधुश्रावकनिह्नवाः । अत्र चतुर्वपि भङ्गेषु श्रावकनिह्नवानामर्थाय कृतं कल्पते न साधूनामिति । तदेवमुक्ता एकविंशतिरपि चतुर्भगिकाः, सम्पति सामान्यकेवलिनं तीर्थकरं चाधिकृत्य कल्प्याकल्प्यविधि कथयति केवलनाणे तित्थंकरस्स नो कप्पइ कयं तु ॥ १५७ ॥ व्याख्या-'केवलज्ञाने' केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेतत् , तेन तीर्थकरप्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थकरस्य, तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च, इयमत्र भावना-तीर्थकरप्रत्येकबुद्धवर्जशेषसाधूनामर्थाय कृतं न कल्पते, तीर्थकरप्रत्येकबुद्धानां त्वाय कृतं कल्पते, तथाहि-तीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणे तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते, एवं भक्ताद्यपि, एवं प्रत्येकवुद्धस्यापि । सम्पति यानाश्रित्य पूर्वोक्ता भङ्गाः सम्भवन्ति स्म तान् प्रतिपादयतिपत्तेयबुद्ध निण्हव उवासए केवलीवि आसज्ज । खइयाइए य भावे पडुच्च भंगे उ जोएज्जा ॥ १५८ ॥ व्याख्या–प्रत्येकबुद्धान् निह्नवान् 'उपासकान् श्रावकान् 'केवलिनः' तीर्थकरान् अपिशब्दाच्छेप साधूवाश्रिय तथा ' क्षायि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy