SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रावकाणां निह्नवानां चार्थाय कृतं कल्पते न यतीनां २, चरणतः साधर्मिका अभिग्रहतश्च समानचरणाभिग्रहा यतयः, अत्र न कल्पते ३, न चरणतो नाप्यभिग्रहतः विसदृशाभिग्रहचरणाः साधवों विसदृशाभिग्रहाः श्रावकनिहवाच, अत्र कल्याकल्प्यभावना द्वितीयभङ्ग इव ४, चरणभावनयोरियं चतुर्भङ्गिका- चरणतः साधर्मिका न भावनातः भावनातः साधर्मिका न चरणतः चरणतः साधर्मिका भावनातच न चरणतो नापि भावनातः, अस्या उदाहरणान्यतिदेशत आह एवं भावणा तु व्याख्या—यथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावनास्वप्युदाहर्त्तव्यं तचैवं चरणतः साधर्मिका न भावनातः समानचरणविभिन्नभावना यतयः १, भावनातः साधर्मिका न चरणतः समानभावना निह्नवाः श्रावका विभिन्नचरणा यतयश्च २, चरणतः साधर्मिका भावनातश्च समानचरण भावना यतयः ३, न चरणतो नापि भावनातो विसदृशचरण भावनाः साधवो विसदृशभावनाः श्रावका निवाश्च ४, अत्र चतुर्ष्वपि भङ्गकेषु कल्प्या कल्प्यविधिः प्रागिव । तदेवं चरणविषयेऽपि द्वे चतुर्भङ्गिके उक्ते, सम्प्रत्यभिग्रहभावनयोचतुर्भङ्गिकां वक्तुकाम आह— वोच्छं दोहंतिमाणित्तो ॥ १५६ ॥ व्याख्या—इत ऊर्ध्वं द्वयोरन्तिमयोः - अभिग्रहभावनालक्षणयोः पदयोश्चतुर्भङ्गिकामुदाहरणतो वक्ष्ये । तत्र तयोरियं चतुर्भङ्गिका| अभिग्रहतः साधर्मिका न भावनातः, भावनातः साधर्मिका नाभिग्रहतः, भावनातः साधर्मिका अभिग्रहतच, नाभिग्रहतो नापि भावनातः । तत्राद्यं भङ्गद्वयमुदाजिहीर्षुराह - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy