________________
00000०००
साधर्मिका ज्ञानतश्च समानज्ञानाः साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावकाच, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न यतीनां, न| लिङ्गतो नापि ज्ञानतो, विभिन्नज्ञानाः प्रत्येकबुद्धतीर्थकरा एकादशपतिमाप्रतिपन्नवर्जाः श्रावकाच, एतेषामर्थाय कृतं कल्पते, लिङ्गचरणयोरियं चतुर्भनिका, लिङ्गतः सार्मिका न चरणतः, चरणतः साधर्मिका न लिङ्गतो, लिङ्गतः साधर्मिकाश्चरणतश्च, न लिङ्गतो नापि चरणतः, अस्या अपि चतुर्भनिकाया उदाहरणानि प्रायः पूर्वसदृशानीतिकृत्वा नियुक्तिन्नोदाहृतवान् ततोऽहमेवोदाहरामि, लिङ्गतः साधर्मिका न चरणतो विभिन्नचारित्रा यतयः, एकादशी प्रतिमा प्रतिपन्नाः श्रावका नियाश्च, अत्र श्रावकाणां निवानां चार्थाय कृतं कल्पते न यतीनां, चरणतः साधर्मिका न लिङ्गतः, प्रत्येकबुद्धास्तीर्थकृतश्च समानचारित्राः, तेषामर्थाय कृतं साधूनां कल्पते, लिङ्गतः साधर्मिकाश्चरणतश्च समानचारित्रा यतयः, तेषामर्थाय कृतं न कल्पते, न लिङ्गतो नापि चरणतो विसदृशचरणाः प्रत्येकबुद्धतीर्थकरा एकादशपतिमावर्जाः श्रावकाच, तेषामर्थाय कृतं कल्पते ॥ लिङ्गाभिग्रहयोश्चतुर्भङ्गिका इयं-लिङ्गतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न लिङ्गतो, लिङ्गतः साधर्मिका अभिग्रहतश्च, न लिङ्गतो नाप्यभिग्रहतः, तत्राद्यं भङ्गाद्वयमुदाहरतिलिंगेण उ नाभिग्गह अणभिग्गह वीसऽभिगही चेव । जइ सावग बीयभंगे पत्तेयबुहा य तित्थयरा ॥ १५२॥
व्याख्या-लिङ्गेन साधर्मिका नाभिग्रहतोऽनभिग्रहाः, यद्वा 'विष्वाभिग्रहिणो' विभिन्नाभिग्रहकलिता यतय एकादशी प्रतिमा प्रतिपन्नाः श्रावकाच वेदितव्याः, उपलक्षणमेतन्निवाश्च, अत्रापि निवानां श्रावकाणां चाय कृतं कल्पते न यतीनाम् १, अभिग्रहतः साधमिका न लिङ्गत इत्येवंरूपे द्वितीये भने प्रत्येकबुद्धास्तीर्थकराश्वशब्दादेकादशपतिमावजों: श्रावकाश्च समानाभिग्रहा द्रष्टव्याः, एतेषामर्थाय कृतं कल्पते २, लिङ्गतः साधर्मिका अभिग्रहतश्च समानाभिग्रहाः साधव एकादशी प्रतिमां प्रतिपन्नाः श्रावका निह्नवाश्च, अत्रापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org