________________
पिण्डनिर्युतेर्मलयगियावृत्तिः
॥ ५७ ॥
चरणयोरपि भङ्गाः, ततस्तान् मुक्त्वा लिङ्गदर्शनलिङ्गाभिग्रहादिसत्कान् भङ्गानुदाहरिष्यामीति, तत्र लिङ्गदर्शनयोरियं चतुर्भङ्गिका, लिङ्गतः साधर्मिका न दर्शनतः, दर्शनतः साधर्मिका न लिङ्गतः, लिङ्गतोऽपि साधर्मिका दर्शनतश्च न लिङ्गतो नापि दर्शनतः, तत्राद्यं भङ्गद्वयमुदाहरति
लिङ्गेण उ साहम्मी न दंसणे वीसुदंसि जइ निण्हा । पत्तेयबुद्ध तित्थंकरा य बीयंमि भंगंमि ॥ १५१ ॥
व्याख्या - लिङ्गेन साधर्मिका 'न दंसणे' इत्यत्र तृतीयार्थे सप्तमी न दर्शनेन, 'विष्वग्दर्शना' विभिन्नदर्शना यतयो निह्नवाथ, उपलक्षणमेतत्, विभिन्नदर्शना एकादशप्रतिमाप्रतिपन्नाः श्रावकाच, तत्र निह्नवा मिथ्यादृष्टित्वान्न दर्शनतः साधर्मिकाः अत्र च निह्नवानां श्रावकाणां चार्थाय कृतं कल्पते न यतीनां द्वितीये भङ्गे दर्शनतः साधर्मिका न लिङ्गत इत्येवंरूपे प्रत्येकबुद्धास्तीर्थंकृत एका| दशप्रतिमाप्रतिपन्नवजः श्रावकाश्च समानदर्शना ज्ञेयाः, तेषामर्थाय कृतं कल्पते, शेषं भङ्गद्वयं वयमुदाहरामः, लिङ्गतः साधर्मिका दर्शनतथ समानदर्शना साधव एकादशीं प्रतिमां प्रतिपन्नाः श्रावकाच, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां न लिङ्गतो नापि दर्शनतो | विसदृशदर्शनाः प्रत्येकबुद्धतीर्थकरा एकादशप्रतिमाप्रतिपन्नवजः श्रावकाच, तेषामर्थाय कृतं कल्पते, लिङ्गज्ञान चतुर्भङ्गिका त्वेवं, लिङ्गतः साधर्मिका न ज्ञानतः, ज्ञानतः साधर्मिका न लिङ्गतः, लिङ्गतः साधर्मिका ज्ञानतश्च न लिङ्गतो नापि ज्ञानतः अस्याश्चतुर्भङ्गिकाया आ द्यभङ्गद्वयोदाहरणानि प्रायो लिङ्गदर्शन चनुर्भङ्गिकायद्यसदृशानीतिकृत्वा निर्युक्तिन्नोदाहरति, ततो वयमेवोदाहरामः - लिङ्गतः साधर्मिका न ज्ञानतः, विभिन्नज्ञाना यतय एकादशीं प्रतिमां प्रतिपन्नाः श्रावका निवाश्च, अत्रापि श्रावकाणां निह्नवानां चार्थाय कृतं कल्पते न यतीनां ज्ञानतः साधर्मिका न लिङ्गतः समानज्ञानास्तीर्थकरप्रत्येकबुद्धा एकादशप्रतिमावजः श्रावकाच, तेषामर्थाय कृतं कल्पते, लिङ्गतः
Jain Education International
For Personal & Private Use Only
आधाकर्म
णि साधर्मिकचतुभेङ्गयः
॥ ५७ ॥
Hjainelibrary.org