SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नाम् , अभिग्रहेण साधर्मिका न प्रवचनेन, निह्नवतीर्थकरप्रत्येकबुद्धाः, एतेषां चाय कृतं कल्पते, प्रवचनतः साधर्मिका अभिग्रहतश्च साधवः श्रावकाश्च समानाभिग्रहाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां, न प्रवचनतो नाप्यभिग्रहतः, तीर्थकरप्रत्येकबुद्धनिह्नवा विसदृशाभिग्रहकलिता निरभिग्रहा वा, तेषामर्थाय कृतं कल्पते, 'एवं पवयणभावण 'त्ति एवं-पूर्वोक्तेन प्रकारेण प्रवचनभावनेतिप्रवचनभावनाचतुर्भङ्गिका भावनीया, तद्यथा-प्रवचनतः साधर्मिका न भावनातः, साधवः श्रावका वा विसदृशभावनाकाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां, भावनातः साधर्मिका न प्रवचनतः, निद्रवतीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिका भावनातश्च, साधवः श्रावकाश्च समानभावनाकाः, तत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनां, न प्रवचनतो नापि भावनातः तीर्थकरप्रत्येकबुद्धनिह्नवा विसदृशभावनाकाः, एतेषामर्थाय कृतं कल्पते, तदेवमुक्तानि प्रवचनाश्रितानां षण्णां चतुर्भङ्गिकानामुदाहरणानि, एत्तो सेसाण वोच्छामि'त्ति इत ऊर्ध्वं शेषाणां चतुर्भङ्गिकाणामुदाहरणानि वक्ष्ये । प्रतिज्ञातमेवातिदेशेन निर्वाहयति लिंगाईहिवि एवं एकेकेणं तु उवरिमा नेया । जेऽनन्ने उवरिल्ला ते मोत्तुं सेसए एवं ॥ १५० ॥ व्याख्या--'लिङ्गाईहिवि' इत्यत्र सप्तम्यर्थे तृतीया ततोऽयमर्थः-एवं-पूर्वोक्तेन प्रकारेण लिङ्गादिष्वपि-लिङ्गदर्शनप्रभृतिष्वपि पदेषु एकैकेन लिङ्गादिना पदेन 'उपरितनानि' दर्शनज्ञानप्रभृतीनि पदानि नयेत् , किमुक्तं भवति ?-लिङ्गदर्शनप्रभृतिषु पदेषु दर्शनज्ञानादिभिः पदैः सह याश्चतुर्भङ्गिकास्ताः पूर्वोक्तानुसारेणोदाहरेत्, अतीवेदं सक्षिप्ततरमुक्तम् , अतो न्यक्षेण विवक्षुरिदमाह'जेऽनन्ने' इत्यादि, ये अनन्ये-उदाहरणापेक्षया अन्यादृशा न भवन्ति भङ्गाः तान्मुक्त्वा शेषकान् भङ्गकान् एवं-वक्ष्यमाणप्रकारेण जानीत, इयमत्र भावना-इह लिङ्गदर्शनयोर्ये चत्वारो भङ्गाः सोदाहरणा वक्ष्यन्ते-तादृशा एव पाय उदाहरणापेक्षया लिङ्गज्ञानलिङ्ग Jain Education For Personal & Private Use Only LAT.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy