________________
पिण्डनियु- तेर्मलयगि
रीयावृत्तिः
॥५६॥
नतः, तीर्थकराः प्रत्येकबुद्धा वा समानज्ञानाः, तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिका ज्ञानतश्च, साधवः श्रावका वा समानज्ञानाः आधाकर्मअत्रापि साध्वर्थ कृतं न कल्पते, श्रावकाणां त्वर्थाय कृतं कल्पते, न प्रवचनतो नापि ज्ञानतस्तीर्थकरप्रत्येकबुद्धनिद्भवाः, तत्र तीर्थकराः
णि साध
र्मिकचतुप्रत्येकबुद्धाश्च विभिन्नज्ञाना वेदितव्याः, निवास्तु मिथ्यादृष्टित्वादज्ञानिनः प्रतीता एव, एतेषां सर्वेषामप्यर्थाय कृतं कल्पते, तथा प्रवचनतः साधर्मिका न चारित्रतः साधवः श्रावकाच, तत्र साधवो विसदृशचारित्रसहिता वेदितव्याः, श्रावकाणां त्वविरतसम्यग्दृष्टीनां सर्वथा । विरत्यभावेन देशविरतानां तु देशचारित्रतया चारित्रतः साधर्मिकत्वाभावः सुप्रतीतः, साध्वर्थ चेत्कृतं न कल्पते श्रावकार्थ चेत्तर्हि कल्पते, चारित्रतः साधर्मिका न प्रवचनतः, तीर्थकरप्रत्येकबुद्धाः समानचारित्राः, तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिकाश्चारित्रतश्च साधवः समानचारित्राः, तेषामर्थाय कृतं न कल्पते, न प्रवचनतो नापि चारित्रतस्तीर्थकरप्रत्येकबुद्धनिह्नवाः, तत्र तीर्थकरप्रत्येकबुद्धा विसदृशचारित्रा वेदितव्याः, निवास्त्वचारित्रिण एव, एतेषां च सर्वेषामप्यर्थाय कृतं कल्पते ॥ पञ्चमी चतुर्भङ्गिका प्रवचनतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न प्रवचनतः, प्रवचनतोऽपि साधर्मिका अभिग्रहतश्च, न प्रवचनतोऽपि नाप्यभिग्रहतश्च, एवं षष्ठयपि चतुर्भङ्गिका प्रवचनस्य भावनया सह वेदितव्या, एतयोयोरपि चतुर्भङ्गिकयोः प्रत्येकमायं भङ्गाद्वयमुदाहरतिपवयणओ साहम्मी नाभिग्गह सावगा जइणो ॥ १४८॥
॥५६॥ साहम्मऽभिग्गहेणं नोपवयण निण्ह तित्थ पत्तेया। एवं पवयणभावण एत्तो सेसाण वोच्छामि ॥ १४९ ॥ व्याख्या-प्रवचनतः साधर्मिका नाभिग्रहतः श्रावका यतयश्च विसदृशाभिग्रहसहिताः, तत्र श्रावकाणामर्थाय कृतं कल्पते न साधू
dan Education International
For Personal & Private Use Only
www.jainelibrary.org