SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ | विसरिसदसणजुत्ता पवयणसाहम्मिया न दंसणओ। तित्थगरा पत्तेया नो पवयगदंसप्ताहम्मी ॥ १४७॥ * व्याख्या-प्रवचनतः साधम्मिका न दर्शनतः, 'विसदृशदर्शनयुक्ताः, विभिन्नायिकादिसम्यक्त्वयुक्ताः साधवः श्रावका वा, किमुक्तं भवति ?-एकेषां साधूनां श्रावकाणां वा क्षायोपशमिक दर्शनमपरेषां त्वौपशमिकं क्षायिक वा ते परस्परं प्रवचनतः साधर्मिका न दर्शनतः, तत्र साधूनामर्थाय कृतं साधूनां न कल्पते श्रावकाणां त्वाय कृतं कल्पते तथा दर्शनतः साधर्मिका न प्रवचनतः, तीर्थकराः प्रत्येकबुद्धा वा समानदर्शना वेदितव्याः, तेषामर्थाय कृतं साधूनां कल्पते, प्रवचनतः साधर्मिका दर्शनतश्च, साधवः श्रावका वा समानदर्शनाः, अत्रापि साधूनामर्थाय कृतं न कल्पते श्रावकाणां त्वर्थाय कृतं कल्पते, न प्रवचनतो नापि दर्शनतस्तीर्थकरप्रत्येकबुद्धनिहवाः।। तत्र तीर्थकराः प्रत्येकबुद्धाश्च विभिन्नदर्शना वेदितव्याः, निह्नवाश्च मिथ्यादृष्टयः प्रतीता एव, एतेषां च सर्वेषामर्थाय कृतं कल्पते ।। तृतीया चतुर्भङ्गिका प्रवचनतः साधर्मिका न ज्ञानतः, ज्ञानतः साधर्मिका न प्रवचनतः, प्रवचनतोऽपि साधर्मिका ज्ञानतश्च, न प्रवचनतो नापि ज्ञानतः, एवं चतुर्थ्यपि चतुर्भङ्गिका प्रवचनस्य चारित्रेण सह वेदितव्या, एतयोयोरपि चतुर्भङ्गिकयोराद्यमाद्यं भङ्गद्वयमतिदेशेनोदाहरति नाणचरित्ता एवं नायव्वा होति पवयणेणं तु । व्याख्या-यथा प्रवचनेन सह दर्शनमुक्तम् , एवं ज्ञानचारित्रे अपि प्रवचनेन सह ज्ञातव्ये, तद्यथा-प्रवचनतः साधर्मिका न ज्ञानतः, विसदृशज्ञानसहिताः साधवः श्रावका वा, अत्रापि यदि साधवस्तर्हि न कल्पते, अथ श्रावकास्तहि कल्पते, ज्ञानतः साधर्मिका न प्रवच Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy