________________
|| नियतसङ्कल्पविषयास्त्वमिश्रा यथा यावन्तः सरजस्काः पाखण्डिनो यदिवा सौगता देवदत्ता इत्यादि, तत्र यावन्तो देवदत्ताः पाखण्डिन| इति मिश्रसङ्कल्पे कृते न कल्पते पाखण्डिदेवदत्तशब्दाभ्यां देवदत्ताख्यस्यापि साधोः सङ्कल्पविषयीकृतत्वात् , यदा पुनरमिश्रः सङ्कल्पो| यथा यावन्तः सरजस्काः पाखण्डिनो देवदत्ता यदिवा यावन्तः सौगता देवदत्ता यद्वा साधुव्यतिरेकेण सर्वेऽपि पाखण्डिनो देवदत्तास्तेभ्यो दास्यामीति, तदा देवदत्ताख्यस्य साधोः कल्पते, तस्य सङ्कल्पविषयीकरणाभावात् , यथा च पाखण्डिषु मिश्रामिश्रेषु विभाषा|| |कृता तथा श्रमणेष्वपि मिश्रामिश्रेषु कर्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो वक्ष्यति-निग्गंथसकतावसगेरुयाजीव पञ्चहा समणा' । ततो यदैवं मिश्रः सङ्कल्पो यावन्तः श्रमणा देवदत्ताख्यास्तेभ्यो दास्यामीति तदा देवदत्ताख्यस्य साधोर्न कल्पते, तस्य श्रमणदेवदत्तशब्दाभ्यां सङ्कल्पविषयीकृतत्वात् , यदा पुनरेवममिश्रः सङ्कल्पो यावन्तः शाक्याः श्रमणा यदिवा आजीविका देवदत्ता यदा-साधुव्यतिरेकेण सर्वे श्रमणा देवदत्तास्तेभ्यो दास्यामीति तदा कल्पने, तस्य विवक्षितसङ्कल्पविषयीकरणाभावात् , संयतानां तु निर्ग्रन्थानां विसदृशनानामपि सङ्कल्पे कृते देवदत्ताख्यादेः साधोर्न कल्पते, किमुक्तं भवति ?-चैत्रनाम्नोऽपि संयतस्योद्देशेन कृतं | देवदत्ताख्यस्य साधोर्न कल्पते, तथा भगवदाज्ञाविज़ंभणात, यदा पुनस्तीर्थकरप्रत्येकबुद्धसङ्कल्पनेन कृतं तदा कल्पते, तीर्थकरप्रत्येकबुद्धानां सङ्घातीतत्वेन सङ्घमध्यवर्तिभिः साधुभिः सह साधर्मिकत्वाभावात् , ' संजयाण उ विसरिसनामाणवि न कप्पे' इति वचनाचार्थापत्त्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यं । तदेवमुक्तो नामसाधर्मिकमधिकृत्य कल्प्याकल्प्यविधिः, सम्मति स्थापनाद्रव्यसाधर्मिकावधिकृत्य तमाह
नीसमनीसा व कडं ठवणासाहम्मियम्मि उ विभासा । दव्वे मयतणुभत्तं न तं तु कुच्छा विवज्जेज्जा ॥१४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org