SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु-मिकाः क्षेत्राभिग्रहसाधर्मिका इत्यादि, तत्र द्रव्याभिग्रहस्यापरो द्रव्याभिग्रहो द्रव्याभिग्रहसाधर्मिक इत्यादि, भावना द्वादशधा, तद्यथा- आधाकर्मतमलयांग अनित्यत्वभावना (१) अशरणत्वभावना (२) एकत्वभावना (३) अन्यत्वभावना (४) अशुचित्वभावना (५) संसारभावनाणि साधर्मिरीयावृत्तिः (६) कर्माश्रवभावना (७) संवरभावना (८) निर्जरणभावना (९) लोकविस्तारभावना (१०) जिनप्रणीतधर्मभावनाकारूपणा ॥५३॥ (११) बोधिदुर्लभत्वभावना (१२), भावनाद्वारेण साधर्मिका अपि द्वादशधा, तद्यथा-अनित्यत्वभावनासाधर्मिकोऽशरणत्वभावना साधर्मिक इत्यादि, तत्रानित्यत्वभावनासहितस्यापरोऽनित्यत्वभावनासहितोऽनित्यत्वभावनासाधर्मिक इत्यादि, तदेवं व्याख्याताः सर्वेऽपि | साधर्मिकाः । सम्पत्येतानेवाधिकृत्य कल्प्याकल्प्यविधिवक्तव्यः, तत्र नामसाधर्मिकमधिकृत्य प्रथमतः कल्प्याकल्प्यविधि गाथाद्वयेन प्रतिपादयति जावंत देवदत्ता गिहीव अगिहीव तेसि दाहामि । नो कप्पई गिहीणं दाहंति विसेसिये कप्पे ॥ १४२॥ पासंडीसुवि एवं मीसामीसेस होइ ह विभासा । समणेस संजयाण उ विसरिसनामाणवि न कप्पे ॥ १४३ ॥ व्याख्या-इह कोऽपि पितरि मृते जीवति वा तन्नामानुरागतस्तन्नामयुक्तेभ्यो दानं दित्सुरेवं सङ्कल्पयति, यथा यावन्तो गृहस्था अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातव्यं, तत्रैवं सङ्कल्पे कृते देवदत्ताख्यस्य साधोने कल्पते, देवदत्तशब्देन तस्यापि सङ्कल्पविषयीकृतत्वात, यदा पुनरेवं सड़ल्पयति, यथा यावन्तो गृहस्था देवदत्तास्तेभ्यो दातव्यमिति, तदा एवं 'विशेषिते || निद्धारिते सति तद्योग्यमुपस्कृतं देवदत्ताख्यस्य साधोः कल्पते, तस्य विवक्षितसङ्कल्पविषयीकरणाभावात, तथा पाखण्डिष्वपि मिश्रामिश्रेष्वेवं पूर्वोक्तप्रकारेण विभाषा कर्त्तव्या, इह सामान्यसङ्कल्पविषया मिश्रा उच्यन्ते, यथा यावन्तः पाखण्डिनो देवदत्ता इति, प्रति-11 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy