SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मिको भविष्यतीति स भव्य इत्यर्थः, तथा यच्च साधर्मिकशरीरं सिद्धिशिलातलादिगतमपगतजीवितं भव्यशरीररूपोऽतीतसाधर्मिकशरीररूपश्च द्रव्यसाधर्मिकः, 'क्षेत्रे' क्षेत्रविषयः साधर्मिकः, 'समानदेशी' समानदेशसम्भूतः, कालसाधर्मिकः समानकालसम्भूतः, प्रवचनसाधर्मिकः साध्वादिचतुष्टयरूपसङ्घमध्यादन्यतमः कश्रित्, लिङ्गसाधर्मिको रयहरणमुहपोती इति सूचनात् सूत्रमितिन्यायात् रजोहरणमुखपोतिकाद्युपकरणवान्, 'दर्शनसाधर्मिकः' समानदर्शनः, दर्शनं च त्रिधा, तद्यथा-सायिक क्षायोपशमिकमौपशमिकं च, ततो दर्शनद्वारेण यः साधर्मिकः सोऽपि त्रिधा, तद्यथा-सायिकदर्शनसाधर्मिकः क्षायोपशमिकदर्शनसाधर्मिक औपशमिकदर्शनसाधर्मिकश्च, तत्र क्षायिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टिः क्षायिकदर्शनसाधर्मिक इत्यादि, 'ज्ञानसाधर्मिकः । समानज्ञानः, ज्ञानं च पञ्चधा, तद्यथामतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं च, ततो ज्ञानद्वारेण साधर्मिकोऽपि पञ्चधा, तद्यथा-मतिज्ञानसाधर्मिक इत्यादि, तत्र मतिज्ञानिनो मतिज्ञानी मतिज्ञानसाधर्मिक इत्यादि । चारित्रसाधर्मिकः समानचारित्रः, चारित्रमपि च पञ्चधा, तद्यथा-सामायिक || छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च, ततश्चारित्रेण साधर्मिकोऽपि पञ्चधा, तयथा-सामायिकचारित्रसाधमिकश्छेदोपस्थापनिकचारित्रसाधर्मिक इत्यादि, तत्र सामायिकचारित्रस्य योऽपरः सामायिकचारित्रः स सामायिकचारित्रसाधर्मिक इत्यादि, 'तिविह होइ उ चरित्ते' मतान्तरेण पुनश्चारित्रे-चारित्रविषयः साधर्मिकस्त्रिविधो भवति, यतश्चारित्रं मतान्तरेण त्रिधाऽत्र विवक्षितं, तद्यथा-क्षायिक क्षायोपशमिकमौपशमिकं च, ततस्तद्वारेण यः साधर्मिकः सोऽपि त्रिधा, तद्यथा-सायिकचारित्रसाधर्मिक इत्यादि, तत्र क्षायिकचारित्रस्यापरः क्षायिकचारित्रः क्षायिकचारित्रसाधर्मिक इत्यादि, अभिग्रहा द्रव्यादौ-द्रव्यादिविषयाश्चतुर्विधास्तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च तद्वारेण साधर्मिका अपि चतुर्विधास्तद्यथा-द्रव्याभिग्रहसाध ०००००० ००००० Jain Education International For Personal & Private Use Only jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy