________________
पिण्डनियुतेर्मळयगिरीयावृत्तिः ॥५४॥
व्याख्या-इह कोऽपि गृही गृहीतप्रवज्यस्य मृतस्य जीवतो वा पित्रादेः स्नेहवशात प्रतिकृति कारयित्वा तत्पुरतो ढौकनाय बलिं||| आधाकर्मनिष्पादयति, तन्निष्पादनं च द्विधा, तद्यथा-निश्रया अनिश्रया च, तत्र ये रजोहरणादिवेषधारिणो मपितृतुल्यास्तेभ्यो दास्यामीति सङ्कल्प्य ||णि स्थापनिष्पादयति तदा तद्वलिनिष्पादनं निश्राकृतमुच्यते, यदा त्वेवंविधः सङ्कल्पो न भवति, किन्त्वेवमेव ढौकनाय बलिं निष्पादयति तदा | नाद्रव्यसातद्वलिनिष्पादनमनिश्राकृतमुच्यते, तथा चाह-नीसमनीसा व कडं' इह प्रथमा तृतीयार्थे वेदितव्या, ततोऽयमर्थ:-निश्रयाऽनिश्रया||||
धर्मिक || वा यत्कृतं-निष्पादितं भक्तादिस्थापनासाधर्मिकविषये तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदपि च दौकितमढौकितं वा तर्हि न|| कल्पते, अनिश्राकृतं तु दौकितमढौकितं वा कल्पते, परं तत्रापि प्रवृत्तिदोषप्रसङ्ग इति पूर्वसूरयो निषेधमाचक्षते तथा 'द्रव्ये' द्रव्यसा-||२|| धर्मिकविषये यन्मृततनुभक्तं-तत्कालं मृतस्य साधोर्या तनुस्तस्याः पुरतो ढौकनाय यदशनादि तत्पुत्रादिना कृतं तन्मृततनुभक्तं, तदपि । || द्विधा-निश्राकृतमनिश्राकृतं च, तत्र साधुभ्यो दास्यामीति सन्लप्य कृतं निश्राकृतमितरत्तु स्वपित्रादिभक्तिमात्रकृतमनिश्राकृतं, तत्र यनि-|||| श्राकृतं तनिषेधयति-नैव कल्पते, इतरत्त्वनिश्राकृतं कल्पते, किन्तु तदहणे लोके जुगुप्सा-निन्दा प्रवत्तेते, यथा अहो! अमी भिक्षवो नि:-|| शूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः ॥ सम्पति क्षेत्रकालसाधर्मिकावधिकृत्योतिदेशेन कल्प्याकल्प्यविधिमाह
पासंडियसमणाणं गिहिनिग्गंथाण चेव उ विभासा । जह नामंमि तहेव य खेत्ते काले य नायव्वं ॥१४५॥ व्याख्या-यथा 'नाम्नि' नामसाधर्मिकविषये पापण्डिनां श्रमणानां 'गिहित्ति' सूचनात्सूत्रामति न्यायाद् गृह्यगृहिणां निर्ग
॥५४॥
१ अन्यत्र प्रसिद्धस्यान्यत्र कथनमतिदेशः ।
Jain Education.international
For Personal & Private Use Only
ww.jainelibrary.org