________________
व्याख्या-आधाकर्मणा भुज्यमानेन कृत्वा यस्माद्विशुद्धेभ्यो विशुद्धतरेभ्यः संयमादिस्थानेभ्योऽवतीर्याधस्तादात्मानं करोति तेन कारणेन तदेवाधाकर्म अधःकर्मेत्युच्यते, तथा यस्मादाधाकर्मणा भुज्यमानेन कृत्वा स एव भोक्ता परमार्थतः 'प्राणान् ' द्वीन्द्रियादीन् 'भूतान् ' वनस्पतिकायान् उपलक्षणमेतत् जीवान् सत्त्वांश्च इन्ति-विनाशयति, 'जैस्सहा आरंभो पाणिवहो होइ तस्स नियमेण' इति वचनप्रामाण्यात्, प्राणादींश्च घ्नन् नियमतः चरणादिरूपमात्मानं हन्ति, 'पाणिवहे वैयभंगो' इत्यादिवचनात्तत आधाकर्म आत्मन्नमि-12 त्युच्यते, तथा 'यत्' यस्मात्कारणात् 'तत् । आधाकर्म आददानः परस्य-पाचकादेः सम्बन्धि यत्कर्म-आरम्भजनितं ज्ञानावरणीयादिकमुत्पन्नमासीत् तदात्मनोऽपि करोति, ततस्तदाधाकर्म आत्मकर्मेत्युच्यते, तस्मादधःकर्मादीनि नामानि सर्वाण्यपि नाधाकर्मशब्दार्थमतिवर्त्तन्ते इति द्वितीये भङ्गेऽवतरन्ति । तदेवं मूलद्वारगाथायां 'एगट्ठा' इत्यपि व्याख्यातं, सम्मति 'कस्स वावि' इत्यवयवं व्याचिख्यासुराह
कस्सत्ति पच्छियमी नियमा साहम्मियस्स तं होइ । साहम्मियस्त तम्हा कायव्य परूवणा विहिणा ॥ १३७ ॥
व्याख्या-'कस्य' पुरुषविशेषस्य अर्थाय कृतमाधाकर्म भवतीति परेण पृष्टे उत्तरमभिधीयते, नियमात्साधर्मिकस्यार्थाय कृतं 'आधाकर्म भवति, तस्मात्साधर्मिकस्यागमोक्तेन विधिना प्ररूपणा कर्त्तव्या ॥ प्रतिज्ञातमेव निर्वाहयति
१ प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः ॥ १॥ २ यस्यार्थमारम्भः प्राणिवधः भवति तस्य नियमेन । ३ प्राणिवधान् व्रतभङ्गः ।
Jain Education International
For Personal & Private Use Only
wimw.jainelibrary.org