________________
बक्षीरमिति नाम प्रवर्त्तमानमुपलभ्यते, एवं ततोऽप्यन्यत्र गृहान्तरे, ततोऽमूनि सर्वाण्यपि क्षीरं क्षीरमित्येवंरूपाणि नामानि एकार्थानि एकव्यञ्जनानि, तथा एकार्थानि बहुव्यञ्जनरूपाणि नामानि यथा दुग्धं पयः पीलु क्षीरमिति, अमूनि हि नामानि सर्वाण्यपि विवक्षितगोदग्धादिलक्षणैकार्थाभिधायितया नानापुरुषैरेककालं क्रमेणैकपुरुषेण का प्रयुज्यमानानि एकार्थानि नानाव्यञ्जनानि च ततो द्वितीये भड़े निपतन्ति, नानार्थान्येकव्यञ्जनानि, यथा-गोमहिष्यजासम्बन्धिषु क्षीरं क्षीरमिति नामानि प्रवर्त्तमानानि, एतानि हि नामानि सर्वाण्यपि समानव्यञ्जनानि भिन्न भिन्नगोदुग्धमहिषीदुग्धादिरूपार्थवाचकतया भिन्नानि च तत उच्यन्ते-नानार्थान्येकव्यञ्जनानि, नानानि नानाव्यञ्जनानि यथा घटपटशकटरथादीनि नामानि ॥ तदेवमुक्तानि चतुर्भङ्गिकाया निदर्शनानि, साम्प्रतमिमामेव चतुर्भङ्गिकामाधाकर्मणि यथासम्भवं गाथाद्वयेन योजयति
आहाकम्माईणं होइ दुरुत्ताइ पढमभंगो उ । आहाहेकम्मति य बिइओ सकिंद इव भंगो ॥ १३३ ॥
आहाकम्मतरिया असणाई उ चउरो तइयभंगो। आहाकम्म पड़च्चा नियमा सुन्नो चरिमभंगो॥ १३४॥ व्याख्या-आधाकादीनां नाम्नां युगपद्बहुभिः पुरुषैरेकेन वा कालभेदेनैकस्मिन्नेव अशनादिरूपे वस्तुनि यद् 'द्विरुक्तादि' द्विरुचारणादि, आदिशब्दात त्रिरुचारणादिपरिग्रहः, स भवति प्रथमो भङ्गा, किमुक्तं भवति ?–एकत्र वसतावशनविषये केनाप्याधाकमैति नाम प्रयुक्तं, तथाऽन्यत्रापि वसत्यन्तरेऽशनविषये एवाधाकम्मति नाम प्रयुज्यते, तथा ततोऽन्यत्रापि वसत्यन्तरे, तान्यमूनि सर्वा-| ण्यप्याधाकर्मेति नामानि एकार्थानि एकव्यञ्जनानि इति प्रथमे भङ्गेऽवतरन्ति, आधाकर्म अधाकर्मेत्यादीनि तु नामानि विवक्षिताशनादिरूपैकविषये प्रवर्त्तमानानि द्वितीयो भङ्गः, एकार्थानि नानाव्यञ्जनानीत्येवंरूपद्वितीयभङ्गविषयाणि 'सकिंद इवे 'ति यथा इन्द्रः शक्र
dain Education International
For Personal & Private Use Only
www.jainelibrary.org