SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मळयगिरीयावृत्तिः ॥५०॥ अघोऽधःकर्म अधः कर्म, अत्र विशुद्धेभ्यः संयमादिस्थानेभ्योऽधोऽधस्तरामागमनम् , आत्मानं हन्तीत्यात्मनामति, अत्र चरणाद्यात्म- आधाकमैंविनाशनं, परकर्म आत्मकर्म क्रियते इत्यात्मकर्म, अत्र परकर्मण आत्मसम्बन्धितया करणं, ततोऽत्र संशयो, यथा व्युत्पत्तिनिमित्तं | काथों पृथक् पृथग भिन्नमेवं प्रवृत्तिनिमित्तमपि पृथक् पृथग् भिन्नं यथा घटपटशकटादिशब्दानां, किंवा न यथा घटकलशकुम्भादीनामिति, अत्र आहा अहे य कम्मे' इत्यादावक्षरयोजना प्रागिव भावनीया ॥ एवं परेण प्रश्ने कृते सति शिष्यमतिप्रागल्भ्याधानाय सामान्यतो नामविषयां चतुर्भङ्गिकामाह एगट्टा एगवंजण एगट्ठा नाणवंजणा चेव । नाण? एगवंजण नाणट्ठा वंजणानाणा ॥ १३० ॥ व्याख्या-इह नामानि जगति प्रवर्त्तमानानि कानिचिदुपलभ्यन्ते एकार्थानि एकव्यञ्जनानि, कानिचिदेकार्थानि नानाव्यञ्जनानि, कानिचिन्नानानि एकव्यञ्जनानि, कानिचित्पुनर्नानार्थानि नानाव्यञ्जनानि ॥ अस्या एव चतुर्भनिकायाः क्रमेण लौकिकनिदर्शनानि | गाथाद्वयेनोपदर्शयति दिढं खीरं खीरं एगढ़ एगवंजणं लोए । एगहुँ बहुनामं दुइ पओ पीलु खीरं च ॥ १३१ ॥ गोमहिसिअयाखीरं नाणढं एगवंजणं नेयं । घडपडकडसगडरहा होइ पिहत्थं पिहनामं ॥ १३२ ॥ ४॥५०॥ व्याख्या-इह सर्वत्रापि जातावेकवचनं, ततोऽयमर्थः-एकार्थानि एकव्यञ्जनानि नामानि लोके प्रवर्तमानानि दृष्टानि, यथा| क्षीरं क्षीरमिति, इयमत्र भावना-एकत्र कचिद्गृहे गोदुग्धादिविषये क्षीरमिति नाम प्रवृत्तमुपलब्धं, तथाऽन्यत्रापि गोदुग्धादावेव विषये| Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy